यत्नेन याति युवता दूरे सज्जनसङ्गतिः । गतिर् न विद्यते काचित् क्वचिन् नोदेति सत्यता
मनो विमुह्यतीवान्तर् मुदिता दूरतो गता । नोज्ज्वला करुणोदेति दूराद् आयाति नीचता
धीरताधीरताम् एति पातोत्पातपरो जनः । सुलभो दुर्जनाश्लेषो दुर्लभस् साधुसङ्गमः
आगमापायिनो भावा भावना भवबन्धनी । नीयते केवलं क्वापि नित्यं भूतपरम्परा
दिशो ऽपि हि न दृश्यन्ते देशो ऽप्य् अव्यपदेशभाक् । शैला अपि हि शीर्यन्ते कैवास्था मादृशे जने
द्रवन्त्य् अपि समुद्राश् च शीर्यन्ते तारका अपि । सिद्धा अपि न सिध्यन्ति कैवास्था मादृशे जने
अद्यते ऽसत्तयापि द्यौर् भुवनं चापि भज्यते । धरापि याति वैधुर्यं कैवास्था मादृशे जने
दानवा अपि दीर्यन्ते ध्रुवो ऽप्य् अध्रुवजीवितः । अमरा अपि मार्यन्ते कैवास्था मादृशे जने
शक्रो ऽप्य् आक्रम्यते शक्रैर् यमो ऽपि हि नियम्यते । वायोर् अप्य् अस्त्य् अवायुत्वं कैवास्था मादृशे जने
सोमो ऽपि व्योमताम् एति मार्ताण्डो ऽप्य् एति खण्डनाम् । रुग्णताम् अग्निर् अप्य् एति कैवास्था मादृशे जने
परमेष्ठ्य् अप्य् अनिष्ठावान् हरते हरिम् अप्य् अजः । भवो ऽप्य् अभवतां याति कैवास्था मादृशे जने
कालश् शकलताम् एति नियतिश् चापि नीयते । खम् अप्य् आलीयते ऽनन्ते कैवास्था मादृशे जने
अश्रव्यावाच्यदुर्दर्शतन्त्रेणाज्ञातमूर्तिना । भुवनानि विडम्ब्यन्ते केनचिद् भ्रमदायिना
अहङ्कारकलाम् एत्य सर्वत्रान्तरवासिना । न सो ऽस्ति त्रिषु लोकेषु यस् तेनेह न बाध्यते
शिलाशैलकटप्रेषु साश्वसूतो दिवाकरः । वनपाषाणवन् नित्यम् अवशः परिदोल्यते
धरागोलकम् अन्तस्स्थसुरासुरगणास्पदम् । वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटम् इव त्वचा
दिवि देवा भुवि नराः पाताले ऽसुरभोगिनः । कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम्
कामश् च जगतीशानरणलब्धपराक्रमः । अक्रमेणैव विक्रान्तो लोकम् आक्रम्य वल्गति
वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षणैः । आमोदितककुप्चक्रश् चेतो नयति वक्रताम्
अनुरक्ताङ्गनालोकलोचनालोकिताकृति । स्पष्टीकर्तुं मनश् शक्तो न विवेको महान् अपि
परोपकारकारिण्या परार्त्या परितप्तया । बुद्ध एव सुखी मन्ये स्वार्थशीतलया धिया
उत्पन्नध्वंसिनः कालवडवानलपातिनः । सङ्ख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधेः
सर्व एव नरा मोहाद् दुराशापाशपातिनः । दोषगुल्मकसारङ्गा निगीर्णा जन्मजङ्गले
सङ्क्षीयते जगति जन्मपरम्परासु लोकस्य तैर् इह कुकर्मभिर् आयुर् एतत् । आकाशपादपलताकृतपाशकल्पं येषां फलं न हि विचारविदो ऽपि विद्मः
अद्योत्सवो ऽयम् ऋतुर् एष तथेह यात्रा ते बन्धवस् सुखम् इदं स विशेषभोगः । इत्थं मुधैव कलयन् स्वविकल्पजालम् आलोलपेलवमतिर् गलतीह लोकः
अन्यच् च तातातितराम् अरम्ये मनोरमे वेह जगत्स्वरूपे । न किञ्चिद् अप्य् एति तद् अर्थजातं येनातिविश्रान्तिम् उपैति चेतः
बाल्ये गते कल्पितकेलिलोले वयोमृगे दारदरीषु कीर्णे । शरीरके जर्जरतां प्रयाते विदूयते केवलम् एव लोकः
जरातुषाराभिहतां शरीरसरोजिनीं दूरतरे विहाय । क्षणाद् गते जीवितचञ्चरीके जनस्य संसारसरो विशुष्कम्
यदा यदा पाकम् उपैति नूनं तदा तदेयं नतिम् आतनोति । जराभरानल्पनवप्रसूनविजर्जरा कायलता नराणाम्
तृष्णानदी सारतरप्रवाहग्रस्ताखिलानन्तपदार्थजाता । तटस्थसन्तोषसुवृक्षमूलनिकाषदक्षा वहतीह लोके