तत् तावद् युक्तियुद्धेन तान् प्रबोधयतामराः । यावद् अभ्यासवशतो भविष्यन्ति सवासनाः
ततो वध्या भविष्यन्ति भवतां बद्धभावनाः । तृष्णाप्रोताशया लोके न केचन नपेलवाः
समविषमम् इदं जगत् समग्रं समुपगतं स्थिरतां स्ववासनातः । चलति च लहरीभरो यथाब्धाव् अत इह सैव चिकित्स्यतां प्रयाता
सुरास् त्व् आकर्ण्य तद्वाक्यं जग्मुस् स्वाम् अभितो दिशम् । कमलामोदम् आदाय वनमालाम् इवानिलाः
दिनानि कतिचित् स्वेषु कान्तेषु स्थिरकान्तिषु । द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः
कञ्चित् कालं समासाद्य स्वात्मोदयकरं शुभम् । चक्रुर् दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम्
अथ दैत्यैस् सह व्योम्नि तैः पातालतलोत्थितैः । कालक्षेपकरं घोरं पुनर् युद्धम् अवर्तत
ववुर् असिशरशक्तिमुद्गरौघा मुसुलगदापरशूग्रचक्रसङ्घाः । अशनिगिरिशिलाहुताशवृक्षा अहिगरुडादिमुखानि चायुधानि
मायाकृतायुधमहाम्बुघनप्रवाहा क्षिप्रं प्रति प्रतिदिशं परिनिर्जगाम । पाषाणपर्वतमहीतटवृक्षलक्षक्षुब्धाम्बुपूरघनघोषवती नदी द्राक्
मध्यप्रवाहवहदुल्मुकशूलशैलप्रासासिकुन्तशरतोमरमुद्गरेण । गङ्गोपमाम्बुवलितामरमन्दिरेण सर्वासु दिक्ष्व् अशनिवर्षणकर्षणेन
पृथ्व्यादिदारुणशरीरमयी प्रहारदानग्रहे गगनरश्मिशरीरकैव । या योपशाम्यति सुरासुरसिद्धसेना मायाकृता पुनर् उदेति रसेन सैव
शैलोपमायुधविघट्टितभूधराणि रक्ताम्बुपूरपरिपूर्णमहार्णवानि । देवासुरेन्द्रसुरशैलविरूढकुन्ततालीवनानि ककुभां वदनान्य् अथासन्
उद्गीर्णकुन्तशरशक्तिगदासिचक्रा हेलानिगीर्णसुरदानवमुक्तशैला । काषक्वणत्क्रकचदन्तनखोग्रमाला जीवान्वितापतद् अथायससिंहवृष्टिः
उज्ज्वाललोचनविषज्वलनातपोद्यद्दिग्दाहदर्शितयुगान्तदिनेशसेना । उड्डीयमानपरिदीर्घमहीमहीध्रा मत्ताब्धिवद् विषधरावलिर् उल्ललास
उन्नादवज्रमकरोत्करकर्करान्तरिक्षाब्धिवीचिवलयैर् वलिताचलेन्द्रैः । आसीज् जगत् सकलम् एव सुसङ्कटाङ्गम् आवर्तिभिर् विविधहेतिनदीप्रवाहैः
शैलास्त्रशस्त्रगरुडाचलमालितोच्चनागाङ्गनासुरगणाङ्गनम् अन्तरिक्षम् । आसीत् क्षणं जलधिभिः क्षणम् अग्निपूरैः पूर्णं क्षणं दिनकरैः क्षणम् अन्धकारैः
गरुडगुडगुडाकुलान्तरिक्षप्रविसृतहेतिहुताशपर्वतौघैः । जगद् अभवद् असह्यकल्पकालज्वलितसुरालयभूतलान्तरालम्
उदपतन् वसुधातलतो ऽसुरा गगनम् अद्रितटाद् इव पक्षिणः । अतिबलाद् अपतन् विबुधा भुवि प्रलयचालितशैलशिला इव
शरीररूढोन्नतहेतिवृक्षवनावलीलग्नमहाग्निदाहाः । सुरासुराः प्रापुर् अथाम्बरान्तः कल्पानिलान्दोलितशैलशोभाम्
सुरासुराद्रीन्द्रशरीरमुक्तै रक्तप्रवाहैर् अभितो भ्रमद्भिः । बभार पूर्णं परितो ऽम्बराब्धिस् सन्ध्यारुणोद्यच्छतगङ्गम् अङ्गम्
गिरिवर्षणम् अम्बुवर्षणं विविधोग्रायुधवर्षणं तथा । विषमाशनिवर्षणं च ते शमम् अन्योऽन्यम् अथाग्निवर्षणम्
अनयन् नयमार्गकोविदा दलिताशेषगिरीन्द्रभित्तयः । ससृजुश् च समं समन्ततः ककुबङ्गेष्व् इव पुष्पवर्षणम्
देवासुरास् सरससङ्गरसम्भ्रमार्ता अन्योऽन्यम् अङ्गदलनाकुलहेतिहस्ताः । दामेन्द्रडिम्बदहनाः पृथुपीठपीठैः कीर्णासृजो नभसि बभ्रमुर् आक्षिपन्तः
छिन्नैश् शिरःकरभुजोरुभरैर् भ्रमद्भिर् आकाशकोशशलभैर् अशिवैस् तदानीम् । आसीज् जगज्जठरम् अभ्रवरैर् इवोग्रैर् आभास्करं स्थगितदिक्तटशैलजालम्
मत्तानलं क्षुब्धजलानिलार्कं दलद्वनं शीर्णसुरासुरौघम् । ब्रह्माण्डम् आखण्डितकुड्यकोणम् अकालकल्पान्तकरालम् आसीत्
भ्रान्तं भृशं भ्रमितदिक्तटम् अद्रिकूटैर् आत्मप्रमाणघनहेतिहतै रणद्भिः । कूजद्भिर् आर्तिभिर् इवोग्रगुहौघवातैः क्रन्दद्भिर् आपतितसिंहरवैर् अदभ्रैः
मायानदीजलधियोधघनाग्निदाहैर् वृक्षैस् सुरासुरशवैर् अचलैश् शिलौघैः । भ्रान्तं शिरस्त्रशरशक्तिगदास्त्रशस्त्रैर् वातावकीर्णवनपर्णवद् अम्बरान्तः
अद्रीन्द्रपक्षपरिमाणगमागमैकदुर्वारहस्ततलदारुणताडनैर् द्राक् । आसीत् पतद्भटशरीरगिरीन्द्रघातविभ्रष्टदेवपुरपूर्णजलार्णवौघः
घनघुङ्घुमपूरितान्तरिक्षा क्षतजाक्षालितभूधरान्तराला । रुधिरह्रदवृत्तिवर्तिनी वा भुवनाभोगगुहा तदाकुलाभूत्
अनन्तदिक्प्रसरविकारकारिणी क्षयोदयोन्मुखसुखदुःखदायिनी । रणक्रियासुरसुरसङ्घसङ्कटा तदाभवत् खलु सदृशीह संसृतेः