अथ देवा विषण्णास् ते क्षणम् आश्वस्य वै ययुः । जयोपायाय विजिता ब्रह्माणम् अमितौजसम्
तेषाम् आविरभूद् ब्रह्मा रक्तरक्ताननश्रियाम् । सायं रक्तीकृताम्बूनाम् अब्धीनाम् इव चन्द्रमाः
प्रणम्य ते सुरास् तस्मै तम् अर्थं शम्बरेरितम् । सम्यक् प्रकथयाम् आसुर् दामव्यालकटक्रमम्
तम् आकर्ण्याखिलं ब्रह्मा विचार्य च विचारवित् । उवाचेदं सुरानीकम् आश्वासनकरं वचः
हन्त वर्षसहस्रान्ते शम्बरेण हरेः क्रमात् । मर्तव्यम् अमरेशस्य तत्कालं सम्प्रतीक्ष्यताम्
दामव्यालकटान् एतान् अद्य त्व् अमरसत्तमाः । योधयन्तः पलायध्वं मायायुद्धेन दानवान्
युद्धाभ्यासवशाद् एषां मकुराणाम् इवाशये । अहङ्कारचमत्कारः प्रतिबिम्बम् उपैष्यति
गृहीतवासनास् त्व् एते दामव्यालकटास् सुराः । सुजया वो भविष्यन्ति जाललग्नाः खगा इव
अद्य त्व् अवासना एते सुखदुःखविवर्जिताः । धैर्येणारीन् विनिघ्नन्तो देवदुर्जयतां गताः
वासनातन्तुबद्धा ये आशापाशवशीकृताः । वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव
ये हि निर्वासना धीरास् सर्वत्रासक्तबुद्धयः । न हृष्यन्ति न कुप्यन्ति दुर्जयास् ते महाधियः
यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धश् शरीरिणः । महान् अपि बहुज्ञो ऽपि स बालेनापि जीयते
अयं सो ऽहम् इदं मे तद् इत्य् आकलितकल्पनः । आपदां पात्रताम् एति पयसाम् इव सागरः
इयन्मात्रपरिच्छिन्नो येनात्माभव्यभावितः । स सर्वज्ञो ऽपि सर्वत्र परां कृपणतां गतः
अनन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता । आत्मतत्त्वस्य तेनात्मा स्वात्मनैवावशीकृतः
आत्मनो व्यतिरिक्तं यत् किञ्चिद् अस्ति जगत्त्रये । तत्रोपादेयभावेन बद्धा भवति भावना
आस्थामात्रम् अनन्तानां दुःखानां कारणं विदुः । अनास्थामात्रम् अभितस् सुखानां कारणं विदुः
दामव्यालकटा यावद् अनास्था भावसंस्थितौ । तावन् न नाम जेया वो मषकाणाम् इवानिलाः
अन्तर्वासनया जन्तुर् दीनताम् अनुयातया । जितो भवत्य् अन्यथा तु मषको ऽप्य् अमराचलः
विद्यते वासना यत्र तत्र चायाति दीनता । गुणागुणानुविद्धत्वं सतो दृष्टं हि नासतः
अयं सो ऽहं ममेदं चेत्य् एवम् अन्तस् स्ववासनाम् । यथा दामादयश् शक्र भावयन्ति तथा कुरु
या या जनस्य विपदो भावाभावदशाश् च याः । तृष्णाकरञ्जवल्ल्यास् ता मञ्जर्यः कटुकोमलाः
वासनातन्तुबद्धो ऽयं लोको विपरिवर्तते । सा सुवृद्धातिदुःखाय सुखायोच्छेदम् आगता
धीरो ऽप्य् अतिबहुज्ञो ऽपि कुलजो ऽपि महान् अपि । तृष्णया बध्यते जन्तुस् सिंहश् शृङ्खलया यथा
देहपादपसंस्थस्य हृदयालयशायिनः । तृष्णा चित्तखगस्यास्य वागुरा परिकल्पिता
दीनो वासनया लोकः कृतान्तेनापकृष्यते । रज्ज्वेव बालेन खगो विवशो ऽनिशम् उच्छ्वसन्
अलम् आयुधभारेण सङ्गरभ्रमणेन च । वासनां सविपर्यासां युक्त्यैव त्वं रिपोः कुरु
अन्तरक्षुभिते धैर्ये रिपोर् अमरनायकाः । न शस्त्राणि न शास्त्राणि न चास्त्राणि जयन्ति वः
दामव्यालकटास् त्व् एते युद्धाभ्यासवशेन च । अहङ्कारमयीम् अन्तस् ते ग्रहीष्यन्ति वासनाम्
यदि ते यन्त्रपुरुषाश् शम्बरेण विनिर्मिताः । वासनां नाश्रयिष्यन्ति यास्यन्ति तद् अजय्यताम्