किञ्चिल्लब्धजयप्रायदैत्यदानवमण्डलम् । दूयमानसुरानीकम् एकान्तोद्विग्नवासवम्
उत्तराशामिलद्वह्निरक्तहेतिबृहत्प्रभम् । प्रतिक्षणं लसद्दाहप्रकाशतिमिरोल्बणम्
ववुर् अशनिनिपातपिण्डिताङ्गा दलितशिलाशकला दिशां मुखेषु । प्रलयसमयसूचकास् सुराणाम् उरुतरघर्घरघस्मरास् समीराः
वहत्स्व् असृक्प्रवाहेषु गङ्गापूरेष्व् इवाम्बरात् । दाम्नि वेष्टितदेवौघे मुक्तक्ष्वेडाघनारवे
व्याले निजकराकृष्टिपिष्टसर्वसुरालये । कटे कठिनसंरम्भसङ्गराच्छादितामरे
ऐरावणे क्षीणमदे पलायनपरायणे । प्रवृद्धे दानवानीके मध्याह्न इव भास्करे
पतितार्धायुधाङ्गानि प्रस्रवद्रुधिराणि च । पयांसीव विसेतूनि देवसैन्यानि दुद्रुवुः
दामव्यालकटास् तानि चिरम् अन्तर्हितान्य् अपि । अनुजग्मुर् लसन्नादम् इन्धनानीव पावकाः
अन्विष्टान् अपि यत्नेन नालभन्तासुरास् सुरान् । घनजालवनोड्डीनान् सिंहा हरिणकान् इव
अलब्धेष्व् अमरौघेषु दामव्यालकटास् तदा । जग्मुः पातालकोशस्थं प्रभुं प्रमुदिताशयाः
अथ देवा विषण्णास् ते क्षणम् आश्वस्य वै ययुः । जयोपायाय विजिता ब्रह्माणम् अमितौजसम्
तेषाम् आविरभूद् ब्रह्मा रक्तरक्ताननश्रियाम् । सायं रक्तीकृताम्बूनाम् अब्धीनाम् इव चन्द्रमाः
प्रणम्य ते सुरास् तस्मै तम् अर्थं शम्बरेरितम् । सम्यक् प्रकथयाम् आसुर् दामव्यालकटक्रमम्
तम् आकर्ण्याखिलं ब्रह्मा विचार्य च विचारवित् । उवाचेदं सुरानीकम् आश्वासनकरं वचः
हन्त वर्षसहस्रान्ते शम्बरेण हरेः क्रमात् । मर्तव्यम् अमरेशस्य तत्कालं सम्प्रतीक्ष्यताम्
दामव्यालकटान् एतान् अद्य त्व् अमरसत्तमाः । योधयन्तः पलायध्वं मायायुद्धेन दानवान्
युद्धाभ्यासवशाद् एषां मकुराणाम् इवाशये । अहङ्कारचमत्कारः प्रतिबिम्बम् उपैष्यति
गृहीतवासनास् त्व् एते दामव्यालकटास् सुराः । सुजया वो भविष्यन्ति जाललग्नाः खगा इव
अद्य त्व् अवासना एते सुखदुःखविवर्जिताः । धैर्येणारीन् विनिघ्नन्तो देवदुर्जयतां गताः
वासनातन्तुबद्धा ये आशापाशवशीकृताः । वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव
ये हि निर्वासना धीरास् सर्वत्रासक्तबुद्धयः । न हृष्यन्ति न कुप्यन्ति दुर्जयास् ते महाधियः
यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धश् शरीरिणः । महान् अपि बहुज्ञो ऽपि स बालेनापि जीयते
अयं सो ऽहम् इदं मे तद् इत्य् आकलितकल्पनः । आपदां पात्रताम् एति पयसाम् इव सागरः
इयन्मात्रपरिच्छिन्नो येनात्माभव्यभावितः । स सर्वज्ञो ऽपि सर्वत्र परां कृपणतां गतः
अनन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता । आत्मतत्त्वस्य तेनात्मा स्वात्मनैवावशीकृतः
आत्मनो व्यतिरिक्तं यत् किञ्चिद् अस्ति जगत्त्रये । तत्रोपादेयभावेन बद्धा भवति भावना
आस्थामात्रम् अनन्तानां दुःखानां कारणं विदुः । अनास्थामात्रम् अभितस् सुखानां कारणं विदुः
दामव्यालकटा यावद् अनास्था भावसंस्थितौ । तावन् न नाम जेया वो मषकाणाम् इवानिलाः
अन्तर्वासनया जन्तुर् दीनताम् अनुयातया । जितो भवत्य् अन्यथा तु मषको ऽप्य् अमराचलः
विद्यते वासना यत्र तत्र चायाति दीनता । गुणागुणानुविद्धत्वं सतो दृष्टं हि नासतः