भुसुण्डीमण्डलास्फोटस्फुटन्मेरुशिरश्शतम् । शरमारुतनिर्लूनदैत्यदेवासुराम्बुजम्
चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तृणम् । सेनाप्रवाहकल्लोलवलनावलिताम्बरम्
हेत्यद्रिपातनिष्पिष्टपतद्वैमानिकव्रजम् । हस्तानीताब्धिवार्योघप्लावितव्योमपत्तनम्
वहन्महास्त्रावर्तासिशूलशक्तिनदीशतम् । शैलपक्षोद्भटास्फोटजडब्रह्माण्डमण्डपम्
दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् । नारीहलहलारावरवत्कनकमन्दिरम्
लुठद्दैत्याचलोद्धूतमत्तार्णवजलाद्रिभिः । धौतरक्तनभोयोधमुक्तनादद्रवद्व्रजम्
लोकपानेकपाम्भोदच्छन्नच्छन्नार्यमान्वितम् । पुनस् सुरासुरोद्द्योतैर् दृष्टसैन्यकुलाकुलम्
सपक्षपर्वताकारदानवाद्रिगमागमैः । वहत्पचपचाशब्दभूरिभाङ्करभीषणम्
आयुधाद्रिविभिन्नाग्रदैत्यपर्वतनिर्झरैः । रक्तैर् अरुणिताशेषवसुधार्णवपर्वतम्
उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरैः । वृतासङ्ख्यासुरेभाश्वमनुष्यरथपर्वतम्
सुतालोत्तालनाराचराजिरेचितचारणम् । कल्पाभ्रपटलासारधारादलितपर्वतम्
मुष्टिप्रहारपिष्टांसमत्तैरावणवारणम् । महाशनिविनिष्पेषपिष्टोड्डीनकुलाचलम्
कुपिताग्निज्वलज्ज्वालाजालैर् ज्वलितदानवम् । एकाञ्जलिपुटानीतसमुद्रोत्सादितानलम्
चान्द्रशैत्यादिसम्भारशिलीकृतमहाजलम् । वनव्यूहेन्धनाग्न्यर्चिर्द्राविताम्बुशिलोच्चयम्
अस्त्रनिर्मितदुर्वारतमःकल्पान्तरात्रिकम् । मायासूर्यगणोद्द्योतपीतातनुतमःपटम्
मायाग्निवर्षनिपतत्कल्पान्तगणवर्षणम् । सध्रीङ्काराग्निपवनशस्त्रसङ्घट्टकर्षणम्
वज्रवर्षविनिर्धूतशैलवर्षास्त्रसम्भवम् । निद्राबोधास्त्रयुद्धाढ्यं सवर्षावग्रहास्त्रकम्
वहत्क्रकचवृक्षास्त्रं जलाग्न्यस्त्ररणान्वितम् । ब्रह्मास्त्रयुद्धविषमं तमस्तेजोऽस्त्रशारितम्
अस्त्रोद्गीर्णायुधानीकनीरन्ध्रसकलाम्बरम् । शिलावर्षास्त्रवलितं वह्निवर्षास्त्रभासुरम्
पताकामृष्टशशिकैश् चक्रचीत्कारगर्जितैः । मुहूर्तेन रथैर् लङ्घितोदयास्तमयाचलम्
वज्रप्रहाराविरतम्रियमाणमहासुरम् । शुक्रामरमहाविद्याजायमानापरासुरम्
शुभग्रहमहाकेतुपालितानाम् इतस् ततः । उत्पातमङ्गलौघानां युद्धैर् उद्धतकन्धरम्
साद्रिखोर्वीसमुद्रद्यु जगद् रुधिरवारिभिः । फुल्लैककिंशुकवनं कुर्वद् दुर्वारवैरतः
पर्वतप्रतिमासङ्ख्यशवपूर्णमहार्णवम् । समग्रतरुशाखांसलम्बलोलमहाशवम्
नीयमानैस् स्ववाताक्तैः पक्षपुष्पलसत्फलैः । तालोत्तालैश् शरव्रातवनैर् व्याप्तनभस्तलम्
पर्वतप्रतिमासङ्ख्यकबन्धवनबाहुभिः । नृत्यद्भिः पतिताम्भोदविमानसुरतारकम्
शरशक्तिगदाप्रासपट्टिसप्रोतपर्वतम् । लोकसप्तकविभ्रष्टकुड्यखण्डाचिताम्बरम्
अनारतरसन्मत्तकल्पाभ्रदृढदुन्दुभि । पृष्ठशब्दश्रवोन्नादपातालतलवारणम्
विनायककराकृष्टदीर्घदानवपर्वतम् । एकदिक्तटनिस्स्पन्दसिद्धसाध्यमरुद्गणम्
पलायमानगन्धर्वकिन्नरामरचारणम् । शवीभूतक्षतक्षीणपतद्गन्धर्वनायकम्