जुघूर्णुर् भटनिर्मुक्तसिंहनादविराविताः । प्रलयानिलसम्पूरैस् साट्टहासा इवाद्रयः
रेजुर् आत्मशिलातुल्यहेतिपातार्तवृत्तयः । कुलाचलतटा भीतविभ्रान्तहरिमण्डलाः
तेरुः परस्पराघातहतहेतिसमुत्थिताः । लोलानलकणाः कल्पविशीर्णा इव तारकाः
विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः । कल्पतालतनूत्ताला वेतालास् तारतालिनः
प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे । व्योम्नि हेतिहतक्षुण्णमौलिकुण्डलकोटयः
बभूवुर् भास्कराकारैः कल्पपादपबाहुभिः । प्रहारदलिताद्रीन्द्रैर् दैत्यैर् निर्विवरा दिशः
जग्मुर् ज्वलदसिव्रातपातपाटितभित्तयः । कणप्रकरतां शैलाः कल्पाग्निवलिता इव
देवास् तेजस् समाजग्मुर् अश्वमेधैधिता इव । असुरान् अनुसस्रुस् ताञ् जलदान् इव वायवः
जगृहुस् तान् अथाक्रम्य जरदाखून् इवोतवः । रेजुस् सुरासुराः फुल्लवनलोलाद्रिवद् दिवि
ते ऽन्योऽन्यं पूरयाम् आसुश् शस्त्रपूरैर् दिशो दश । वनानि कुसुमव्रातैस् सुमेरोर् इव मारुताः
घोरं समभवद् युद्धं देवदानवसैन्ययोः । रोदोरन्ध्रोडुम्बरान्तर् महामषकसङ्घयोः
अथोदपतद् उन्नासैर् लोकपालेभमण्डलैः । कल्पाभ्रैः पूरिताकारो दारुणस् समरारवः
पिण्डग्रहेण नभसि भूभाग इव कुट्टिमम् । मुष्टिग्राह्यो महामेघमन्थरोदरपीवरः
प्रथमापातसम्पिष्टशस्त्रशैलरटत्तटः । स्फुटद्धृदयनिस्सत्त्वकर्कशाक्रन्दघर्घरः
प्रलयप्रत्ययोल्लासिकल्पाभ्रारवबृंहणः । द्वादशादित्यसङ्घट्टद्रवत्काञ्चनसन्निभः
ब्रह्माण्डकुड्यसङ्घट्टात् परावृत्यावनिं गतः । महास्रोतःपयःपूरस् सेत्वाहत इवाकरम्
चलत्सपक्षशैलेन्द्रपक्षवातबलध्वनिः । कठिनापूरणोड्डीनस्फुटच्छैलेन्द्रकन्दरः
मन्दरोद्धूतदुग्धाब्धिसङ्क्षोभसदृशांशकः । प्रतिश्रुद्घुङ्घुमास्फोटघट्टितद्वीपजन्तुभूः
सेनयोः क्रुद्धयोर् आसीद् युद्धम् उद्धतदानवम् । निष्पिष्टनगरग्रामगिरिकाननमानवम्
महाहेतिशतच्छिन्नदानवाचलपूर्णदिक् । अन्योऽन्यहतहेत्यद्रिचूर्णपूर्णाम्बरोदरम्
भुसुण्डीमण्डलास्फोटस्फुटन्मेरुशिरश्शतम् । शरमारुतनिर्लूनदैत्यदेवासुराम्बुजम्
चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तृणम् । सेनाप्रवाहकल्लोलवलनावलिताम्बरम्
हेत्यद्रिपातनिष्पिष्टपतद्वैमानिकव्रजम् । हस्तानीताब्धिवार्योघप्लावितव्योमपत्तनम्
वहन्महास्त्रावर्तासिशूलशक्तिनदीशतम् । शैलपक्षोद्भटास्फोटजडब्रह्माण्डमण्डपम्
दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् । नारीहलहलारावरवत्कनकमन्दिरम्
लुठद्दैत्याचलोद्धूतमत्तार्णवजलाद्रिभिः । धौतरक्तनभोयोधमुक्तनादद्रवद्व्रजम्
लोकपानेकपाम्भोदच्छन्नच्छन्नार्यमान्वितम् । पुनस् सुरासुरोद्द्योतैर् दृष्टसैन्यकुलाकुलम्
सपक्षपर्वताकारदानवाद्रिगमागमैः । वहत्पचपचाशब्दभूरिभाङ्करभीषणम्
आयुधाद्रिविभिन्नाग्रदैत्यपर्वतनिर्झरैः । रक्तैर् अरुणिताशेषवसुधार्णवपर्वतम्
उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरैः । वृतासङ्ख्यासुरेभाश्वमनुष्यरथपर्वतम्