यावद् उद्वेगम् आपन्नश् शम्बरः कोपवान् भृशम् । तार्णो ऽभि वातम् अनल इव जज्वाल चोच्छ्वसन्
त्रैलोक्यम् अपि चान्विष्य न देवांल् लब्धवान् अथ । परेणापि प्रयत्नेन सुकृतानीव दुष्कृती
ससर्ज मायया घोरान् असुरांस् त्रीन् महाबलान् । बलरक्षार्थम् उदितान् कालान् मूर्तिम् इवास्थितान्
निर्मिता मायया भीमाः कल्पपादपबाहवः । उदगुस् ते महाकायाः पक्षक्षुब्धा इवाद्रयः
दामा व्यालः कटश् चेति नामभिः परिलाञ्छिताः । यथाप्राप्तैककर्तारश् चेतनामात्रधर्मिणः
अभावात् कर्मणां ते च प्राक्तनानाम् अवासनाः । निर्विकल्पकचिन्मात्रपरिस्पन्दैककर्मिणः
कर्मबीजं कलां तन्वीं दधाना मननात्मिकाम् । अपुष्टां कृत्रिमाम् अन्तर् आदायोदयम् आगताः
पारम्पर्येण ते ह्य् अत्र काकतालीयवद् भटाः । प्रकृताम् अनुवर्तन्ते क्रियाम् उज्झितवासनाः
अर्धसुप्ता यथा बालास् स्वाङ्गैर् इङ्गन्ति केवलम् । वासनात्माभिमानाभ्यां हीनास् ते तद्वद् एव हि
नाभिपातं न चापातं विदुस् ते न पलायनम् । न जीवितं न मरणं न रणं च जयाजयौ
केवलं सैनिकान् अग्रे दृष्ट्वाभिहननोद्यतान् । अभिजघ्नुः परान् आजौ प्रहारदलिताद्रयः
शम्बरश् चिन्तयाम् आस परितुष्टमनाः पुरे । विजेष्यते हि मत्सेना मायासुरसुरक्षिता
इष्टानिष्टाभिर् एते हि वासनाभिस् समुज्झिताः । ततो रणे बिभ्यति नो विद्रवन्ति च न स्थिराः
यदैते न पलायन्ते देवैर् अभिहता अपि । तदैषातिबला सेना ममेदानीं व्यवस्थिता
अतिबलासुरदोर्द्रुमपालिता मम चमूस् स्थिरताम् अलम् एष्यति । अमरवारणदन्तविघट्टनेष्व् अमरपर्वतहेममही यथा
दैत्यास् सागरकुञ्जेभ्यः कन्दरेभ्यस् सुराचलात् । उदगुर् भीमनिर्ह्रादास् सपक्षगिरिलीलया
रोदसीकुहरं हस्तप्रहारहतभास्करम् । दानवाः पूरयाम् आसुर् दामव्यालकटेरिताः
अथोत्तस्थुर् निकुञ्जेभ्यः कन्दरेभ्यस् सुराचलात् । प्रलयान्त इवाक्षुब्धा भीतास् स्वर्वासिनां गणाः
देवासुरपताकिन्योस् तद् युद्धम् अभवत् तयोः । अकालोल्बणकल्पान्तभीषणं भुवनान्तरे
पेतुः प्रलयपर्यस्तसचन्द्रार्काद्रिवद् दिवः । शिरांसि कुण्डलोद्वान्ततेजःपीततमांस्य् अधः
जुघूर्णुर् भटनिर्मुक्तसिंहनादविराविताः । प्रलयानिलसम्पूरैस् साट्टहासा इवाद्रयः
रेजुर् आत्मशिलातुल्यहेतिपातार्तवृत्तयः । कुलाचलतटा भीतविभ्रान्तहरिमण्डलाः
तेरुः परस्पराघातहतहेतिसमुत्थिताः । लोलानलकणाः कल्पविशीर्णा इव तारकाः
विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः । कल्पतालतनूत्ताला वेतालास् तारतालिनः
प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे । व्योम्नि हेतिहतक्षुण्णमौलिकुण्डलकोटयः
बभूवुर् भास्कराकारैः कल्पपादपबाहुभिः । प्रहारदलिताद्रीन्द्रैर् दैत्यैर् निर्विवरा दिशः
जग्मुर् ज्वलदसिव्रातपातपाटितभित्तयः । कणप्रकरतां शैलाः कल्पाग्निवलिता इव
देवास् तेजस् समाजग्मुर् अश्वमेधैधिता इव । असुरान् अनुसस्रुस् ताञ् जलदान् इव वायवः
जगृहुस् तान् अथाक्रम्य जरदाखून् इवोतवः । रेजुस् सुरासुराः फुल्लवनलोलाद्रिवद् दिवि
ते ऽन्योऽन्यं पूरयाम् आसुश् शस्त्रपूरैर् दिशो दश । वनानि कुसुमव्रातैस् सुमेरोर् इव मारुताः