अयम् अहम् इति निश्चयो वृथा यस् तम् अलम् अपास्य महामते सुबुद्ध्या । यद् इतरद् अवलम्ब्य तत् पदं त्वं व्रज पिब भुङ्क्ष्व न बध्यसे ऽमनस्कः
अस्मिन् विहरतो लोके लोकारामस्य धीमतः । श्रेयसे तिष्ठतो यत्नम् उत्तमार्थाभिपातिनः
दामव्यालकटन्यायो मा ते भवतु राघव । भीमभासद्रुटस्थित्या तवास्त्व् अतिविशोकता
दामव्यालकटन्यायो मा भवत्व् इत्य् उदाहृतम् । ब्रह्मन् किम् एतद् भवता भवतापापहारिणा
उदारयैतया शुद्धं सम्प्रबोधय मां गिरा । घनतापापहारिण्या प्रावृषेव कलापिनम्
दामव्यालकटन्यायं भीमभासद्रुटस्थितिम् । श्रुत्वा राघव तत् पश्चाद् यद् इष्टं तत् समाचर
आसीत् पातालकुहरे सर्वाश्चर्यमनोहरे । शम्बरो नाम दैत्येन्द्रो मायामणिमहार्णवः
आकाशनगरोद्यानरचितासुरमन्दिरः । कृत्रिमोत्तमचन्द्रार्कभूषितात्मीयमण्डलः
शिलाशकलसम्भूतपद्माढ्यरमणाचलः । अनन्तविभवारम्भपरिपूरितदानवः
गृहरत्नाङ्गनागेयजितामरवधूध्वनिः । चन्द्रबिम्बफलापूर्णक्रीडोपवनपादपः
फुल्लनीलोत्पलव्यूहजटालरमणालयः । रत्नहंससमाहूतहेमाम्बुरुहसारसः
हेमपादपशाखाग्रकृताम्भोरुहकुट्मलः । करञ्जजालजनितमन्दारकुसुमोत्करः
सर्वर्तुकुसुमोद्यानजितनन्दननन्दनः । मायासर्पहृतव्यालमलयाचलचन्दनः
हेमस्त्रीलोकलावण्यजिह्मितान्तःपुराङ्गनः । क्रीडार्थस्पर्धयेशानहतचक्रगदाधरः
अजस्रोड्डीनरत्नौघताराढ्यस्वपुराम्बरः । नानाकुसुमसम्भारजानुदघ्नकृताङ्गनः
निशास्व् अखिलपातालशतचन्द्रनभस्तलः । स्वसालभञ्जिकालोकगीतिगीतगुणोत्करः
मायैरावणनागेन्द्रविद्रुतामरवारणः । त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः
सर्वसम्पत्तिसुभगस् सर्वैश्वर्यसमन्वितः । समस्तदैत्यसामन्तवन्दिताग्र्यानुशासनः
महाभुजवनच्छायाविश्रान्तासुरमण्डलः । सर्वाम्बुधिगुहासाररत्नकुण्डलमण्डितः
तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः । बभूव विपुलं सैन्यम् आसुरं सुरनाशनम्
तस्मिन् मायाबले सुप्ते देशान्तरगते तथा । तत्सैन्यान्तरम् आजग्मुश् छिद्रं प्राप्य किलामराः
अथ शम्बरदैत्येन दुद्रिकह्वद्रुमादयः । रक्षार्थं मत्तसामन्तास् स्वसेनासु नियोजिताः
तान् अप्य् अन्तरम् आसाद्य जघ्नुर् गीर्वाणनायकाः । व्योमान्तरचराश् श्येनाः कलविङ्कान् इवाकुलान्
सेनापतीन् पुनश् चान्यांश् चकारासुरसत्तमः । चपलान् उद्भटारावांस् तरङ्गान् इव सागरः
देवास् तान् अपि तस्याशु जघ्नुस् तेन स कोपवान् । जगामामरनाशाय परिपूर्णस् त्रिविष्टपम्
तत्रास्य मायाभीतास् ते सुरा अन्तर्धिम् आययुः । मेरुकाननकुञ्जेषु मृगा गौरीगुरोर् इव
क्रन्दत्क्षुद्रामरगणं बाष्पक्लिन्नसुरीमुखम् । शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम्
विहृत्य कुपितस् तत्र लब्धम् आहृत्य शम्बरः । लोकपालपुरीर् दग्ध्वा जगामात्मीयम् आलयम्
एवं दृढतरीभूते द्वेषे दानवदेवयोः । देवास् स्वर्गं परित्यज्य दिक्षु जग्मुर् अदर्शनम्
अथ शम्बरदैत्येन ये ये सेनाधिनायकाः । क्रियन्ते यत्नतस् तांस् ताञ् जघ्नुर् यत्नपरास् सुराः