त्यजन्तं सुसुखं साम्यं मनो विषयविद्रुतम् । अङ्कुशेनेव नागेन्द्रं विचारेण शमं नयेत्
भोगेषु प्रसरो यस्या मनोवृत्तेः प्रदीयते । साप्य् आदाव् एव हन्तव्या विषस्येवाङ्कुरोद्गतिः
ताडितस्य हि यः पश्चात् सम्मानस् सो ऽप्य् अनन्तकः । शालेर् ग्रीष्मोपतप्तस्य कुसेको ऽप्य् अमृतायते
अनार्तेन हि सम्मानो बहुमानो न बुध्यते । पूर्णानां सरितां प्रावृट्पूरस् स्वल्पं विराजते
पूर्णस् तूपकृतो ऽप्य् अन्यत् पुनर् अप्य् अभिवाञ्छति । जगत्पूरणयाप्य् अम्बु गृह्णात्य् एकार्णवो ऽखिलम्
मनसो निगृहीतस्य या पश्चाद् भागमण्डना । ताम् एवालब्धविस्तारलब्धत्वाद् बहु मन्यते
बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति । परैर् अबद्धो नाक्रान्तो न राज्यं बहु मन्यते
हस्तं हस्तेन सम्पीड्य दन्तैर् दन्तान् विचूर्ण्य च । अङ्गान्य् अङ्गैर् इवाक्रम्य जय स्वेन्द्रियशात्रवान्
जेतुम् अन्यं कृतोत्साहैः पुरुषैर् उद्बुभूषुभिः । पूर्वं हृदयशत्रुत्वाज् जेतव्यानीन्द्रियाण्य् अलम्
एतावति धरणितले सुभगास् ते साधुचेतनाः पुरुषाः । पुरुषकथासु च गण्या न जिता ये चेतसा स्वेन
हृदयबिले कृतकुण्डल उल्बणकलनाविषो मनोभुजगः । यस्योपशान्तिम् आगत उदितं तम् अरिन्दमं वन्दे
स्वाश्रयं प्रथमं देहं कृतघ्ना नाशयन्ति ये । ते कुकार्यमहाकोशा दुर्जयास् स्वेन्द्रियारयः
कलेवराश्रयं प्राप्य विषयामिषगर्धतः । अक्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः
विवेकतन्तुजालेन गृहीता येन ते शठाः । तस्याङ्गानि न लुम्पन्ति पाषाणकवलं यथा
आपातरमणीयेषु रमन्ति विषयेषु ये । अत्यन्तविरसान्तेषु पतन्ति नरकेषु ते
विवेकधनवान् अस्मिन् कुकलेवरपत्तने । इन्द्रियारिभिर् अन्तस्स्थैर् अवशो नाभिभूयते
तथा न सुखिता भूपा मृण्मयोग्रपुरीजुषः । यथा स्वाधीनमनसस् स्वशरीरपुरीश्वराः
स्वाक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः । वसन्त इव मञ्जर्यो वर्धन्ते बुद्धबुद्धयः
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः
तावन् निशीव वेताल्यो वल्गन्ते हृदि वासनाः । एकतत्त्वदृढाभ्यासाद् यावन् न विजितं मनः
भृत्यो ऽभिमतकर्तृत्वान् मन्त्री सत्कार्यकारणात् । सामन्तस् स्वेन्द्रियाक्रान्तेर् मनो मन्ये विवेकिनः
लालनात् स्निग्धललना पालनात् पावनः पिता । सुहृद् उत्तमविश्वासान् मनो मन्ये मनीषिणाम्
स्वालोकितं शास्त्रदृशा सुध्यातं स्वनुनाथितम् । प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता
सुघृष्टस् सुपरामृष्टस् सुधृतस् स्वनुबोधितः । सुगुणायोजितो भाति हृदि हृद्यो मनोमणिः
जन्मवृक्षकुठाराणि तथोदर्कोदयानि च । दिशत्य् एष मनोमन्त्री कर्माणि शुभकर्मणः
एवं मनोमणिं राम बहुपङ्ककलङ्कितम् । विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान् भव
भवभूमिषु भीमासु विवेकविततो ऽपि सन् । मा पतोत्पातपूर्णासु विवशः प्राकृतो यथा
संसारमायाम् उदिताम् अनर्थशतसङ्कुलाम् । मा महामोहमिहिकाम् इमां त्वम् अवधीरय
विवेकं परम् आश्रित्य बुद्ध्या सत्यम् अवेक्ष्य च । इन्द्रियारीन् अलं जित्वा तीर्णो भव भवार्णवात्
असत्य् एव शरीरे ऽस्मिन् सुखदुःखेष्व् असत्सु च । दामव्यालकटन्यायो मा ते भवतु राघव