शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः । अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा
सुखदुःखक्रियाजालं यदैषोद्वहति स्वयम् । तदैषा राम सर्वत्र सर्ववस्तुभरक्षमा
तस्यां शरीरपुर्यां हि राज्यं कुर्वन् गतभ्रमः । ज्ञस् तिष्ठति गतव्यग्रं स्वपुर्याम् इव वासवः
न क्षिपत्य् अवटाटोपे मनोमत्ततुरङ्गमम् । न लोभद्वन्द्वरूपाय प्रज्ञापुत्रीं प्रयच्छति
अज्ञानपरराष्ट्रं च न रन्ध्रं त्व् अस्य पश्यति । संसारारिभयस्यान्तर् मूलान्य् एष निकृन्तति
तृष्णासारपरावर्ते कामसङ्क्षोभदुर्ग्रहे । न निमज्जति पर्यस्तसुखदुःखाक्षदेवने
करोत्य् अविरतं स्नानं बहिर् अन्तर् अपि क्षणात् । सरित्सङ्गमतीर्थेषु मनोरथगतिः क्रमात्
सकलाक्षिजनादृश्यः पुरप्रेक्षापराङ्मुखः । ध्याननाम्नि सुखं नित्यं तिष्ठत्य् अन्तःपुरान्तरे
सुखावहैषा नगरी नित्यं प्रमुदितात्मनः । भोगमोक्षप्रदा दिव्या शक्रस्येवामरावती
स्थितया संस्थितं सर्वं किञ्चिन् नष्टं न नष्टया । यया पुर्या महीपस्य सा कथं न सुखावहा
विनष्टे देहनगरे ज्ञस्य नष्टं न किञ्चन । आक्रान्तकुम्भकोशस्य खस्य कुम्भक्षये यथा
विद्यमानं घटं वायुः किल स्पृशति नास्थितम् । यथा तथैव देही स्वां शरीरनगरीम् इमाम्
अत्रस्थ एष भगवान् आत्मा सर्वगतो ऽपि सन् । स्वविकल्पकृतां भुक्त्वा पुंस्ताम् अधिगतात्मदृक्
कुर्वन्न् अपि न कुर्वाणस् सम्यक्सर्वक्रियोन्मुखः । कदाचित् प्रकृतान् सर्वान् कार्यार्थान् अधितिष्ठति
कदाचिल् लीलया लोलं विमानम् अधिरोहति । अनाहतगतिं कान्तं विहर्तुम् अमलं मनः
तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया । रमते रामया मैत्र्या नित्यं हृदयसंस्थया
द्वे कान्ते तिष्ठतस् तस्य पार्श्वयोस् सत्यतैकते । इन्दोर् इव विशाखे द्वे समाह्लादितचेतसे
ज्ञ इमान् अखिलांल् लोकान् दुःखक्रकचदारितान् । वाल्मीकान् इव पीठस्थः पृष्ठाद् अर्क इवेक्षते
चिरं पूरितसर्वाशस् सर्वसम्पत्तिसुन्दरः । अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते
सेव्यमानो ऽपि भोगौघो न खेदायास्य जायते । कालकूटः किलेशस्य कण्ठे प्रत्युत राजते
परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये । विज्ञायाश्वासितो मैत्रीम् एति चौरो न शत्रुताम्
नरनारीनटौघानां कलहे दूरगामिना । ज्ञेन यात्रेव सुभगा भोगश्रीर् अवलोक्यते
अशङ्कितोपसम्प्राप्ता ग्रामयात्रा यथाध्वगैः । प्रेक्ष्यते तद्वद् एव ज्ञैर् व्यवहारमयी क्रिया
अयत्नोपनतेष्व् अक्षि दिग्द्रव्येषु यथा पुरः । नीरागम् एव पतति तद्वत् कार्येषु धीरधीः
इन्द्रियाणां न हरति प्राप्तम् अर्थं कदाचन । न ददाति तथा प्राप्तं सम्पूर्णो ज्ञो ऽवतिष्ठते
अप्राप्तचिन्तास् सम्प्राप्तसमुपेक्षाश् च सन्मतिम् । नाकम्पयन्ति तरलाः पिञ्छघाता इवाचलम्
संशान्तसर्वसन्देहो गलिताखिलकौतुकः । सङ्क्षीणवासनाजालो ज्ञस् सम्राड् इव शोभते
आत्मन्य् एव न मात्य् अन्तस् स्वात्मनात्मनि जृम्भते । सम्पूर्णापारपर्यन्तः क्षीरार्णव इवात्मवान्
भोगेच्छाकृपणाञ् जन्तून् दीनान् दीनेन्द्रियाणि च । अनुन्मत्तमनाश् शान्तो हसत्य् उन्मत्तकान् इव
इच्छतो ऽन्यनिजां जायां यथैवान्येन हस्यते । इन्द्रियस्येच्छतो भोगं तथैव ज्ञेन हस्यते