नाहं न चान्यद् अस्तीह ब्रह्मैवास्ति न चास्ति तत् । इत्थं सदसतोर् मध्यं यः पश्यति स पश्यति
यन् नाम किञ्चित् त्रैलोक्ये स एको ऽवयवो मम । तरङ्गो ऽब्धाव् इवेत्य् अन्तर् यः पश्यति स पश्यति
आत्मतापरते त्वत्तामत्ते यस्य महात्मनः । भावाद् उपरते स्यातां स पश्यति सुलोचनः
शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी । त्रिलोकी पेलवेत्य् उच्चैर् यः पश्यति स पश्यति
चेत्यानुपातरहितं चिद्भैरवमयं वपुः । आपूरितजगज्जालं यः पश्यति स पश्यति
सुखं दुःखं भवो ऽभावो ऽविवेककलनाश् च याः । अहं न वेति वा नूनं पश्यन् न परिहीयते
स्वात्मसत्तापरापूर्णे जगत्य् अन्येन वर्जिते । किं मे हेयं किम् आदेयम् इति पश्यन् सदृङ् नरः
अप्रतर्क्यम् अनाभासं सन्मात्रम् इदम् इत्य् अलम् । हेयोपादेयकलना यस्य क्षीणा नमामि तम्
य आकाशवद् एकात्मा सर्वभावगतो ऽपि सन् । न भावरञ्जनाम् एति स महात्मा महेश्वरः
तमःप्रकाशकलनामुक्तः कालात्मतां गतः । यस् सोम्यस् सुसमस् स्वस्थस् तं नौमि पदम् आगतम्
यस्योदयास्तमयसङ्कलनाकलासु चित्रासु चारुविभवासु जगद्गतासु । वृत्तिस् समैव सकलैकगतेर् अनन्ता तस्मै नमः परमबोधवते शिवाय
तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा । सुखायैव न दुःखाय स्वशरीरमहापुरी
नगरीत्वं शरीरस्य कथं नाम महामुने । एनां चाधिवसन् योगी कथं राज्यसुखैकभाक्
रम्येयं देहनगरी राम सर्वगुणान्विता । ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता
नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा । करप्रतोलीविस्तारप्राप्तपादोपजङ्गला
रोमराजिलतागुल्मा त्वगट्टालकमालिता । गुल्फगुल्गुलुविश्रान्तजङ्घोरुस्तम्भमण्डला
रेखाविभक्तपादोग्रशिलाप्रथमनिर्मिता । चर्ममर्मसिरासारसन्धिसीमामनोरमा
ऊरुद्वयकवाटाग्रनिर्मितोपस्थनिर्गमा । कचत्कचावलीकाचदलप्रच्छादनावृता
भ्रूललाटास्यसच्छायवदनोद्यानशोभिता । दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थला
वक्षस्स्थलसरस्स्यूतकुचपङ्कजकोरका । घनरोमावलिच्छन्नस्कन्धक्रीडाशिलोच्चया
उदरश्वभ्रनिक्षिप्तस्वन्नेष्टभक्षकर्परा । दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता
हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता । अनारतं नवद्वारप्रवहत्प्राणनागरा
आस्यस्फारखदादृष्टदन्तास्थिशकलाकुला । मुखस्खदाभ्रमज्जिह्वाचिल्लाचर्वितभोजना
रोमशष्पभरच्छन्नकर्णकोटरकूपका । स्फिक्कृङ्खलाञ्चितोपान्तपृष्ठविस्तीर्णजङ्गला
गुदोच्छिन्नारघट्टान्तरुद्धृतानन्तकर्दमा । चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना
धीवरत्रादृढाबद्धचपलेन्द्रियमर्कटा । वदनोद्यानहसनपुष्पोद्गममनोरमा
स्वशरीरपुरी ज्ञस्य सर्वसौभाग्यसुन्दरी । सुखायैव न दुःखाय परमाय हिताय च
अज्ञस्येयम् अनन्तानां दुःखानां कोशपालिका । ज्ञस्य त्व् इयम् अनन्तानां सुखानां कोशपालिका
न किञ्चिद् अस्यां नष्टायां ज्ञस्य नष्टम् अरिन्दम । स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा
यद् एनां ज्ञस् समारुह्य संसारे विहरत्य् अलम् । अशेषभोगमोक्षार्थं तेनेयं ज्ञरथस् स्मृतः