को ऽहं कथम् इदं वेति यावन् न प्रविचारितम् । संसाराडम्बरं तावद् अन्धकारोपमं स्थितम्
मिथ्याभ्रमभरोद्भूतं शरीरं पदम् आपदाम् । आत्मभावनया नेदं यः पश्यति स पश्यति
देशकालवशोत्थानि न ममेति गतभ्रमम् । शरीरसुखदुःखानि यः पश्यति स पश्यति
आत्मानम् इतरच् चैव दृशा नित्याविभिन्नया । सर्वं चिज्ज्योतिर् एवेति यः पश्यति स पश्यति
अपारपर्यन्तनभो दिक्कालादिक्रियान्वितम् । अहम् एवेति सर्वत्र यः पश्यति स पश्यति
वालाग्रलक्षभागात् तु कोटिशः परिकल्पितः । अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति
सर्वशक्तिर् अनन्तात्मा सर्वभावान्तरस्थितः । अद्वितीयश् चिद् इत्य् अन्तर् यः पश्यति स पश्यति
आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् । देहो ऽहम् इति न प्राज्ञो यः पश्यति स पश्यति
तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा मम । न द्वितीयो ममास्तीति यः पश्यति स पश्यति
मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव । चित्तन्तुर् अहम् एवेति यः पश्यति स पश्यति
नाहं न चान्यद् अस्तीह ब्रह्मैवास्ति न चास्ति तत् । इत्थं सदसतोर् मध्यं यः पश्यति स पश्यति
यन् नाम किञ्चित् त्रैलोक्ये स एको ऽवयवो मम । तरङ्गो ऽब्धाव् इवेत्य् अन्तर् यः पश्यति स पश्यति
आत्मतापरते त्वत्तामत्ते यस्य महात्मनः । भावाद् उपरते स्यातां स पश्यति सुलोचनः
शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी । त्रिलोकी पेलवेत्य् उच्चैर् यः पश्यति स पश्यति
चेत्यानुपातरहितं चिद्भैरवमयं वपुः । आपूरितजगज्जालं यः पश्यति स पश्यति
सुखं दुःखं भवो ऽभावो ऽविवेककलनाश् च याः । अहं न वेति वा नूनं पश्यन् न परिहीयते
स्वात्मसत्तापरापूर्णे जगत्य् अन्येन वर्जिते । किं मे हेयं किम् आदेयम् इति पश्यन् सदृङ् नरः
अप्रतर्क्यम् अनाभासं सन्मात्रम् इदम् इत्य् अलम् । हेयोपादेयकलना यस्य क्षीणा नमामि तम्
य आकाशवद् एकात्मा सर्वभावगतो ऽपि सन् । न भावरञ्जनाम् एति स महात्मा महेश्वरः
तमःप्रकाशकलनामुक्तः कालात्मतां गतः । यस् सोम्यस् सुसमस् स्वस्थस् तं नौमि पदम् आगतम्
यस्योदयास्तमयसङ्कलनाकलासु चित्रासु चारुविभवासु जगद्गतासु । वृत्तिस् समैव सकलैकगतेर् अनन्ता तस्मै नमः परमबोधवते शिवाय
तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा । सुखायैव न दुःखाय स्वशरीरमहापुरी
नगरीत्वं शरीरस्य कथं नाम महामुने । एनां चाधिवसन् योगी कथं राज्यसुखैकभाक्
रम्येयं देहनगरी राम सर्वगुणान्विता । ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता
नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा । करप्रतोलीविस्तारप्राप्तपादोपजङ्गला
रोमराजिलतागुल्मा त्वगट्टालकमालिता । गुल्फगुल्गुलुविश्रान्तजङ्घोरुस्तम्भमण्डला
रेखाविभक्तपादोग्रशिलाप्रथमनिर्मिता । चर्ममर्मसिरासारसन्धिसीमामनोरमा
ऊरुद्वयकवाटाग्रनिर्मितोपस्थनिर्गमा । कचत्कचावलीकाचदलप्रच्छादनावृता
भ्रूललाटास्यसच्छायवदनोद्यानशोभिता । दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थला
वक्षस्स्थलसरस्स्यूतकुचपङ्कजकोरका । घनरोमावलिच्छन्नस्कन्धक्रीडाशिलोच्चया