अन्धकारमयी मूढा जाड्यजर्जरितान्तरा । तनुताम् एति संसारवासनेव प्रगे क्षपा
दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा । विकसत्य् अमलोद्द्योता प्रातर् द्यौर् इव रूपिणी
प्रज्ञा हृदयहारिण्यो भुवनाह्लादनक्षमाः । सत्त्वलक्ष्म्यः प्रवर्तन्ते सकलेन्दोर् इवांशवः
बहुनात्र किम् उक्तेन ज्ञातज्ञेयो महामतिः । नोदेति नैव यात्य् अस्तम् अभूताकाशकोशवत्
विचारणापरिज्ञातस्वभावस्योदितात्मनः । अनुकम्प्या भवन्त्य् एते ब्रह्मविष्ण्विन्द्रशङ्कराः
प्रकटाकारम् अप्य् अन्तर् निरहङ्कारचेतसम् । नाप्नुवन्ति विकल्पास् तं मृगतृष्णाम्ब्व् इवैणकाः
तरङ्गवद् अमी लोकाः प्रयान्त्य् आयान्ति चाभितः । क्रोडीकुरुत आत्मोत्थे न ज्ञं मरणजन्मनी
आविर्भावतिरोभावौ संसारो नेतरः क्रमः । इति ताभ्यां समालोके रमते न स खिद्यते
न जायते न म्रियते कुम्भे कुम्भनभो यथा । भूषिते दूषिते वापि देहे तद्वद् इहात्मवान्
विवेक उदिते शीते मिथ्याभ्रमभरोदिता । क्षीयते वासना साभ्रे मृगतृष्णा मराव् इव
को ऽहं कथम् इदं वेति यावन् न प्रविचारितम् । संसाराडम्बरं तावद् अन्धकारोपमं स्थितम्
मिथ्याभ्रमभरोद्भूतं शरीरं पदम् आपदाम् । आत्मभावनया नेदं यः पश्यति स पश्यति
देशकालवशोत्थानि न ममेति गतभ्रमम् । शरीरसुखदुःखानि यः पश्यति स पश्यति
आत्मानम् इतरच् चैव दृशा नित्याविभिन्नया । सर्वं चिज्ज्योतिर् एवेति यः पश्यति स पश्यति
अपारपर्यन्तनभो दिक्कालादिक्रियान्वितम् । अहम् एवेति सर्वत्र यः पश्यति स पश्यति
वालाग्रलक्षभागात् तु कोटिशः परिकल्पितः । अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति
सर्वशक्तिर् अनन्तात्मा सर्वभावान्तरस्थितः । अद्वितीयश् चिद् इत्य् अन्तर् यः पश्यति स पश्यति
आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् । देहो ऽहम् इति न प्राज्ञो यः पश्यति स पश्यति
तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा मम । न द्वितीयो ममास्तीति यः पश्यति स पश्यति
मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव । चित्तन्तुर् अहम् एवेति यः पश्यति स पश्यति
नाहं न चान्यद् अस्तीह ब्रह्मैवास्ति न चास्ति तत् । इत्थं सदसतोर् मध्यं यः पश्यति स पश्यति
यन् नाम किञ्चित् त्रैलोक्ये स एको ऽवयवो मम । तरङ्गो ऽब्धाव् इवेत्य् अन्तर् यः पश्यति स पश्यति
आत्मतापरते त्वत्तामत्ते यस्य महात्मनः । भावाद् उपरते स्यातां स पश्यति सुलोचनः
शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी । त्रिलोकी पेलवेत्य् उच्चैर् यः पश्यति स पश्यति
चेत्यानुपातरहितं चिद्भैरवमयं वपुः । आपूरितजगज्जालं यः पश्यति स पश्यति
सुखं दुःखं भवो ऽभावो ऽविवेककलनाश् च याः । अहं न वेति वा नूनं पश्यन् न परिहीयते
स्वात्मसत्तापरापूर्णे जगत्य् अन्येन वर्जिते । किं मे हेयं किम् आदेयम् इति पश्यन् सदृङ् नरः
अप्रतर्क्यम् अनाभासं सन्मात्रम् इदम् इत्य् अलम् । हेयोपादेयकलना यस्य क्षीणा नमामि तम्
य आकाशवद् एकात्मा सर्वभावगतो ऽपि सन् । न भावरञ्जनाम् एति स महात्मा महेश्वरः
तमःप्रकाशकलनामुक्तः कालात्मतां गतः । यस् सोम्यस् सुसमस् स्वस्थस् तं नौमि पदम् आगतम्