आत्मनो ऽनन्यभूताभिर् अपि यः परिवर्जितः । वासनाभिर् अनन्ताभिर् व्योमेव घनराजिभिः
सन्दिग्धायां यथा रज्ज्वां सर्पत्वं तद्वद् एव हि । चिदाकाशात्मना बन्धस् त्व् अबद्धेनैव कल्पितः
कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यया । तद् एवान्यत्वम् आदत्ते खम् अहोरात्रयोर् इव
यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् । तत्तत्कल्पनया तादृक् तत् सुखायैव कल्पते
शून्य एव कुसूले ऽन्तस् सिंहो ऽस्तीति भयं यथा । शून्य एव शरीरे ऽन्तर् बद्धो ऽस्मीति भयं तथा
यथा शून्ये कुसूले ऽन्तः प्रेक्ष्य सिंहो न लभ्यते । तथा संसारबन्धार्हः प्रेक्षितस् सन् न लभ्यते
इदं जगद् अयं चाहम् इतीयं भ्रान्तिर् उत्थिता । बालानां श्यामले काले छाया वैतालिकी यथा
कल्पनावशतो जन्तोर् भावाभावाश् शुभाशुभाः । क्षणाद् असत्ताम् आयान्ति सत्ताम् अपि पुनः पुनः
मातैव गृहिणीभावगृहीता कण्ठलम्बिनी । करोति गृहिणीकार्यं सुरतानन्ददायिनी
कान्तैव मातृभावेन गृहीताकण्ठलम्बिनी । दूरं विस्मारयत्य् एव मन्मथोन्मादभावनाम्
भावानुसारिफलदं पदार्थौघम् अवेक्ष्य च । न ज्ञेनेह पदार्थेषु रूपम् एकम् उदीर्यते
दृढभावनया चेतो यद् यथा भावयत्य् अलम् । तत् तत्फलं तदाकारं तावत्कालं प्रपश्यति
न तद् अस्ति न यत् सत्यं न तद् अस्ति न यन् मृषा । यद् यथा येन निर्णीतं तत् तथा तेन लक्ष्यते
भाविताकाशमातङ्गं व्योमहस्तितया मनः । व्योमकाननमातङ्गीं व्योमस्थाम् अनुधावति
तस्मात् सङ्कल्पम् एव त्वं सर्वभावमयात्मकम् । त्यज राघव सुस्वस्थस् स्वात्मनैव भवात्मनि
मणिर् हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति । न शक्तो जडभावेन न तु राम भवादृशः
यद् यन् मनोमणौ राम तवेह प्रतिबिम्बति । तद् अवस्त्व् इति निर्णीय मा तेनागच्छ रञ्जनाम्
तद् एव सत्यम् इति वाप्य् अभिन्नं परमात्मनः । मन्वानस् त्वम् अनाद्यन्तं भावयात्मानम् आत्मना
चेतसि प्रतिबिम्बन्ति ये भावास् तव राघव । रञ्जयन्त्व् अन्यसक्तात्मन् मा ते त्वां स्फटिकं यथा
स्फटिकम् अपमलं यथा विशन्ति प्रकटतया नवरञ्जना विचित्राः । इह हि विमननं तथा विशन्तु प्रकटतया भुवनैषणा भवन्तम्
दृश्यं सन्त्यजतो हेयम् उपादेयम् उपेयुषः । द्रष्टारं पश्यतो दृश्यम् अद्रष्टारम् अपश्यतः
असुप्तस्य परे तत्त्वे जागरूकस्य जीवतः । सुप्तस्य घनसम्मोहमये संसारवर्त्मनि
पर्यन्तात्यन्तवैरस्याद् अरसस्य रसेष्व् अपि । भोगेष्व् आभोगरम्येषु नीरसस्य निराशिषः
व्रजत्य् आत्माम्भसैकत्वं जीर्णजाड्ये मनस्य् अलम् । गलत्य् अपगतासङ्गे हिमापूर इवातपे
तरङ्गितासु कल्लोलजाललोलान्तरासु च । शाम्यन्तीष्व् अथ तृष्णासु नदीष्व् इव घनात्यये
संसारवासनाजाले खगजाल इवाखुना । त्रोटिते चादृढग्रन्थिश्लथे वैरस्यरंहसा
कतकं फलम् आसाद्य यथा वारि प्रसीदति । तथा विज्ञानवशतस् स्वभावस् सम्प्रसीदति
नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् । विनिर्याति मनो मोहाद् विहगः पञ्जराद् इव
शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् । परिपूर्णान्तरं चेतः पूर्णेन्दुर् इव राजते
जनितोत्तमसौन्दर्या दूरोदस्तनतोन्नता । समतोदेति सर्वत्र शान्तवात इवार्णवे