प्रमत्तपुष्करावर्तडमरूड्डामरारवैः । तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः
नृत्यतो ऽन्ते कृतान्तस्य चन्द्रमण्डलहासिनः । तारकाचन्द्रिकाचारुव्योमपिञ्छावचूलिनः
एकस्मिञ् श्रवणे दीर्घा हिमवान् अस्ति मुद्रिका । अपरे ऽपि महामेरुः कान्ता काञ्चनकर्णिका
अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले । लोकालोकाचलश्रेणी सर्वतः कटिमेखला
इतश् चेतश् च गच्छन्ती विद्युद्वलयवर्णिका । अनिलान्दोलिता भाति नीरदांशुकपट्टिका
मुसुलैः पट्टिसैश् शूलैः प्रासैस् तोमरमुद्गरैः । तीक्ष्णैः क्षीणजगद्व्रातकृतान्तैर् इव सम्भृतैः
संसारबन्धनादीर्घे पाशे कालकरच्युते । शेषभोगमहासूत्रे प्रोतैर् मालास्य शोभते
जीवोल्लसन्मकरिकारत्नतेजोभिर् उज्ज्वला । सप्ताब्धिकङ्कणश्रेणी भुजयोर् अस्य भूषणम्
व्यवहारमहावर्ता सुखदुःखपरम्परा । रजःपूर्णा तमश्श्यामा रोमाली तस्य राजते
एवम्प्रायां स कल्पान्ते कृतान्तस् ताण्डवोद्भटाम् । उपसंहृत्य नृत्तेहां सृष्ट्या सह महेश्वरः
पुनर् हास्यमयीं नृत्तलीलां सर्वस्वरूपिणीम् । तनोतीमां जरादुःखशोकाभिनयभूषिताम्
भूयः करोति भुवनानि वनान्तराणि लोकान्तराणि जनजालककल्पनां च । आचारचारुकलनां च चलाचलां च पङ्काद् यथार्भकजनो रचनाम् अखिन्नः
वृत्ते ऽस्मिन्न् एव चैतेषां कालादीनां महामुने । संसारनाम्नि कैवास्था मादृशानां भवत्व् इह
विक्रीता इव तिष्ठाम एतैर् दैवादिभिर् वयम् । धूर्तैः प्रपञ्चचतुरैर् मुग्धा वनमृगा इव
एषो ऽनार्यसमाचारः कालः कवलनोन्मुखः । जगत्य् अविरतं लोकं पातयत्य् आपदर्णवे
दहत्य् अन्ते दुराशाभिर् दैवो दारुणचेष्टया । लोकं पुष्पनिकाशाभिर् ज्वालाभिर् दहनो यथा
धृतिं विधुरयत्य् एकामयदा रूपवल्लभा । स्त्रीत्वात् स्वभावचपला नियतिर् नियमोन्मुखी
ग्रसते ऽविरतं भूतजालं सर्प इवानिलम् । कृतान्तः कर्कशाचारो जरां नीत्वा जगद्वपुः
यमनिर्घृणराजेन्द्रो नार्तं नामानुकम्पते । सर्वभूतदयाचारो जनो दुर्लभतां गतः
सर्वा एव मुने फल्गुविभवा भूतजातयः । दुःखायैव दुरन्ताय दारुणा लोभभूमयः
आयुर् अत्यन्ततरलं मृत्युर् एकस् तु निष्ठुरः । तारुण्यं चातितरलं बाल्यं जडतया हृतम्
कलाकलङ्कितो लोको बन्धवो भवबन्धनम् । भोगा भवमहारोगास् तृष्णा च मृगतृष्णिका
शत्रवश् चेन्द्रियाण्य् एव सत्यं यातम् असत्यताम् । प्रहरत्य् आत्मनैवात्मा मन एव मनोरिपुः
अहङ्कारः कलङ्काय बुद्धयः परिपेलवाः । क्रिया दुष्फलदायिन्यो लीलास् स्त्रीनिष्ठतां गताः
वाञ्छाविषयशालिन्यस् सचमत्कृतयः कृताः । नार्यो दोषपताकिन्यो रसा नीरसतां गताः
वस्त्व् अवस्तुतया चात्तं दत्तं चित्तम् अहङ्कृतौ । अभावरोधिता भावा भवान्तो नाधिगम्यते
तप्यते केवलं साधो मतिर् आकुलितान्तरा । रागोरगो विलसति विरागं नोपगच्छति
रजोगुणाहता दृष्टिस् तमस् सम्परिवर्धते । न चाधिगम्यते सत्त्वं तत्त्वम् अत्यन्तदूरतः
स्थितिर् अस्थिरतां याता मृतिर् आगमनोन्मुखी । धृतिर् वैधुर्यम् आयाति रतिर् नित्यम् अवस्तुनि
मतिर् मान्द्येन मलिना पातैकपरमं वपुः । ज्वलतीव जरा देहे प्रविस्फूर्जति दुष्कृतम्