मोक्षे तु नान्यथा प्राप्तिर् इति भावितचेतसः । स्वां दृष्टिं प्रविवृण्वन्तस् स्थितास् स्वनियमभ्रमैः
वेदान्तवादिनो बुद्ध्या ब्रह्मेदम् इति रूढया । युक्तिं शमदमोपेतां निर्णीय परिकल्प्य च
मुक्तौ तु नान्यथा प्राप्तिर् इति भावितचेतसः । स्वां दृष्टिं प्रविवृण्वन्तस् स्थितास् स्वनियमभ्रमैः
विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमरूपया । स्वां दृष्टिं प्रविवृण्वन्ति स्वैर् एव नियमभ्रमैः
आर्हतादिभिर् अन्यैश् च स्वयाभिमतयेच्छया । चित्राश् चित्रसमाचाराः कल्पिताश् शास्त्रदृष्टयः
निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैर् इवोत्थितैः । स्वनिश्चयैर् इतिप्रौढैर् नानाकारा हि रीतयः
सर्वासाम् एव चैतासां रीतीनाम् एक आकरः । मनो नाम महाबाहो मणीनाम् इव सागरः
न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ । यद् यथा मनसाभ्यस्तम् उपलब्धं तथैव तत्
यस् त्व् अकृत्रिम आनन्दस् तदर्थं प्रयतेत वै । मनस् तन्मयतां नेयं तेनासौ समवाप्यते
दृश्यं संसारडिम्बस्थं तुच्छं परिजहन् मनः । तज्जाभ्यां सुखदुःखाभ्यां नावशः परिकृष्यते
अपवित्रम् असद्रूपं मोहनं भयकारणम् । दृश्यम् आभासम् आभोगि बन्धं मा भावयानघ
मायैषा सा ह्य् अविद्यैषा भावनैषा भयावहा । संविदस् तन्मयत्वं यत् तत् कर्मेति विदुर् बुधाः
द्रष्टुर् दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः । भ्रमायैव च तन् मिथ्या महीमक्कोलकर्मवत्
दृश्यतन्मयता यैषा स्वभावस्यानुभूयते । संसारमदिरा सेयम् अविद्येत्य् उच्यते बुधैः
अनयोपहतो लोकः कल्याणं नाधिगच्छति । भास्वरं तपनालोकं पटलान्धेक्षणो यथा
स्वयम् उत्पद्यते सा च सङ्कल्पाद् व्योमवृक्षवत् । असङ्कल्पनमात्रेण स्वयम् एव विनश्यति
असङ्कल्पनमात्रेण भावनायां महामते । क्षीणायां स्वप्रसादेन विमर्शेन विलासिना
असंसङ्गे पदार्थेषु सर्वेषु स्थिरतां गते । सत्यदृष्टौ प्रसन्नायाम् असत्ये क्षयम् आगते
निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते । नासत्ता यस्य नो सत्ता न सुखं नापि दुःखिता
केवलं केवलीभावो यस्यान्तर् उपलभ्यते । अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः
आत्मनो ऽनन्यभूताभिर् अपि यः परिवर्जितः । वासनाभिर् अनन्ताभिर् व्योमेव घनराजिभिः
सन्दिग्धायां यथा रज्ज्वां सर्पत्वं तद्वद् एव हि । चिदाकाशात्मना बन्धस् त्व् अबद्धेनैव कल्पितः
कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यया । तद् एवान्यत्वम् आदत्ते खम् अहोरात्रयोर् इव
यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् । तत्तत्कल्पनया तादृक् तत् सुखायैव कल्पते
शून्य एव कुसूले ऽन्तस् सिंहो ऽस्तीति भयं यथा । शून्य एव शरीरे ऽन्तर् बद्धो ऽस्मीति भयं तथा
यथा शून्ये कुसूले ऽन्तः प्रेक्ष्य सिंहो न लभ्यते । तथा संसारबन्धार्हः प्रेक्षितस् सन् न लभ्यते
इदं जगद् अयं चाहम् इतीयं भ्रान्तिर् उत्थिता । बालानां श्यामले काले छाया वैतालिकी यथा
कल्पनावशतो जन्तोर् भावाभावाश् शुभाशुभाः । क्षणाद् असत्ताम् आयान्ति सत्ताम् अपि पुनः पुनः
मातैव गृहिणीभावगृहीता कण्ठलम्बिनी । करोति गृहिणीकार्यं सुरतानन्ददायिनी
कान्तैव मातृभावेन गृहीताकण्ठलम्बिनी । दूरं विस्मारयत्य् एव मन्मथोन्मादभावनाम्