तन्निश्चयम् उपादाय तत्रैव रसम् ऋच्छति । तन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेष्व् अपि
यन्मयं हि मनो राम देहस् तदनु तद्वशात् । तत्ताम् आयाति गन्धान्तः पवनो गन्धताम् इव
बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस् ततः । स्फुरति स्वत एवोर्वीरजो लोल इवानिले
कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं प्रथयत्य् अलम् । कर्म निष्पद्यते स्फारं पांसुजालम् इवानिलात्
एवं हि मनसः कर्म कर्मबीजं मनस् स्मृतम् । अभिन्नैवैतयोस् सत्ता यथा कुसुमगन्धयोः
यादृशं भावम् आदत्ते दृढाभ्यासवशान् मनः । तथा स्पन्दो ऽस्य कर्माख्यस् तथा शाखा विमुञ्चति
तथा क्रियां तत्फलदां निष्पादयति चादरात् । ततस् तद् एव चास्वादम् अनुभूयाशु बध्यते
यं यं भावम् उपादत्ते तत् तद् वस्त्व् इति विन्दति । तच् छ्रेयो ऽन्यत् तु नास्तीति निश्चयो ऽस्य प्रजायते
धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव हि । मनांसि दृढभावानि प्रतिपत्त्या स्वयैव हि
मनोभिः कापिलानां तु प्रतिपत्तिं निजाम् अलम् । उररीकृत्य निर्णीय कल्पिताश् शास्त्रदृष्टयः
मोक्षे तु नान्यथा प्राप्तिर् इति भावितचेतसः । स्वां दृष्टिं प्रविवृण्वन्तस् स्थितास् स्वनियमभ्रमैः
वेदान्तवादिनो बुद्ध्या ब्रह्मेदम् इति रूढया । युक्तिं शमदमोपेतां निर्णीय परिकल्प्य च
मुक्तौ तु नान्यथा प्राप्तिर् इति भावितचेतसः । स्वां दृष्टिं प्रविवृण्वन्तस् स्थितास् स्वनियमभ्रमैः
विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमरूपया । स्वां दृष्टिं प्रविवृण्वन्ति स्वैर् एव नियमभ्रमैः
आर्हतादिभिर् अन्यैश् च स्वयाभिमतयेच्छया । चित्राश् चित्रसमाचाराः कल्पिताश् शास्त्रदृष्टयः
निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैर् इवोत्थितैः । स्वनिश्चयैर् इतिप्रौढैर् नानाकारा हि रीतयः
सर्वासाम् एव चैतासां रीतीनाम् एक आकरः । मनो नाम महाबाहो मणीनाम् इव सागरः
न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ । यद् यथा मनसाभ्यस्तम् उपलब्धं तथैव तत्
यस् त्व् अकृत्रिम आनन्दस् तदर्थं प्रयतेत वै । मनस् तन्मयतां नेयं तेनासौ समवाप्यते
दृश्यं संसारडिम्बस्थं तुच्छं परिजहन् मनः । तज्जाभ्यां सुखदुःखाभ्यां नावशः परिकृष्यते
अपवित्रम् असद्रूपं मोहनं भयकारणम् । दृश्यम् आभासम् आभोगि बन्धं मा भावयानघ
मायैषा सा ह्य् अविद्यैषा भावनैषा भयावहा । संविदस् तन्मयत्वं यत् तत् कर्मेति विदुर् बुधाः
द्रष्टुर् दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः । भ्रमायैव च तन् मिथ्या महीमक्कोलकर्मवत्
दृश्यतन्मयता यैषा स्वभावस्यानुभूयते । संसारमदिरा सेयम् अविद्येत्य् उच्यते बुधैः
अनयोपहतो लोकः कल्याणं नाधिगच्छति । भास्वरं तपनालोकं पटलान्धेक्षणो यथा
स्वयम् उत्पद्यते सा च सङ्कल्पाद् व्योमवृक्षवत् । असङ्कल्पनमात्रेण स्वयम् एव विनश्यति
असङ्कल्पनमात्रेण भावनायां महामते । क्षीणायां स्वप्रसादेन विमर्शेन विलासिना
असंसङ्गे पदार्थेषु सर्वेषु स्थिरतां गते । सत्यदृष्टौ प्रसन्नायाम् असत्ये क्षयम् आगते
निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते । नासत्ता यस्य नो सत्ता न सुखं नापि दुःखिता
केवलं केवलीभावो यस्यान्तर् उपलभ्यते । अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः