स्वान्तस्संस्थं जगज्जालं भागभागैः क्रमभ्रमैः । पश्यति स्वान्तर् एवाशु स्फारं बीजम् इव द्रुमम्
जीवधातुर् यदा वातैः किञ्चित् सङ्क्षोभ्यते भृशम् । तदोह्यते ऽम्बर इव पश्यत्य् आत्मनि खे गतिम्
यदाम्भसा प्लाव्यते ऽसौ तदा वार्यादिसम्भ्रमम् । अन्तर् एवानुभवति स्वामोदं कुसुमं यथा
यदा पित्तादिनाक्रान्तस् तदाग्न्यौष्ण्यादिसम्भ्रमम् । अन्तर् एवानुभवति स्फारं बहिर् इवाखिलम्
रक्तापूर्णो रक्तवर्णान् देशकालान् बहिर् यदा । पश्यत्य् अनुभवात्मत्वात् तत्रैव च निमज्जति
सेवते वासनां यां तां सो ऽन्तः पश्यति निद्रितः । पवनैः क्षोभितो रन्ध्रैर् बहिर् अक्षादिभिर् यथा
अनाक्रन्तेन्द्रियच्छिद्रो यद् अक्षुब्धो ऽन्तर् एव सः । संविदानुभवत्य् आशु स स्वप्न इति कथ्यते
समाक्रन्तेन्द्रियच्छिद्रो यत् क्षुब्धो बाह्यसंविदा । परिपश्यति तज् जाग्रद् इत्य् आहुर् मतिमत्तमाः
इति विदितवता त्वयाधुनान्तः प्रथितमहामतिनेह सत्यतास्था । असति जगति नैव भावनीया मृतिहृतिसंसृतिदोषभावनी या
दृढनिश्चयवच् चेतो यद् भावयति भूरिशः । तत्तां यात्य् अनलाश्लेषाद् अयःपिण्डो ऽग्निताम् इव
भावाभावग्रहोत्सर्गदृशश् चित्तेन कल्पिताः । नासत्या नापि सत्यास् ता मनश्चापलकारणाः
मनो हि हेतुः कर्तृ स्यात् कारणं च जगत्स्थितेः । विश्वरूपतयैवेदं तनोति मलिनं मनः
मनो हि पुरुषो राम तन् नियोज्यं शुभे पथि । तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः
शरीरं चेच् छरीरं स्यात् कथं शुक्रो महामतिः । अगमद् विविधं भेदं बहुदेहसमुद्भवम्
तस्माच् चित्तं हि पुरुषश् शरीरं चित्तम् एव हि । यन्मयं च भवत्य् एतत् तद् अवाप्नोत्य् असंशयम्
यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् । यत्नात् तदनुसन्धानं कुरु तत्तां च यास्यसि
अभिपतति मनस्स्थितिं शरीरं न तु वपुराचरितं मनः प्रयाति । अभिपततु तवात्र तेन सत्यं सुभग मनः प्रजहात्व् असत्यम् अन्यत्
दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये । म्लाना संविन् मनोनाम्नी कुतः केयम् उपस्थिता
यस्माद् अन्यन् न नामास्ति न भूतं न भविष्यति । कुतः कीदृक् कथं तस्य कलङ्कः कुत्र विद्यते
साधु राम त्वया प्रोक्तं जाता ते मोक्षभागिनी । मतिर् उत्तमनिष्ष्यन्दा नन्दनस्येव मञ्जरी
पूर्वापरविचारार्थतत्परेयं मतिस् तव । सम्प्राप्स्यति पदं प्रोच्चैर् यत् प्राप्तं शङ्करादिभिः
प्रश्नस्यास्य तु ते राम न कालस् तव सम्प्रति । सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते
सिद्धान्तकाले भवता प्रष्टव्यो ऽहम् इदं पदम् । करामलकवत् तेन सिद्धान्तस् ते भविष्यति
सिद्धान्तकाले प्रश्नोक्तिर् एषा तव विराजते । प्रावृष्य् एव हि केकोक्तिर् युक्ता शरदि हंसगीः
सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये । प्रावृषि त्व् अतनूदग्रपयोदपटलोत्थितः
अयं प्रकृत आरब्धो मनोनिर्णय उत्तमः । यद्वशाज् जनताजन्म तद् आकर्णय सुव्रत
एवं प्रकृतिर् एवेयं मनोमननधर्मिणी । कर्मेति राम निर्णीतं सर्वैर् एव मुमुक्षुभिः
शृणु लक्षणभेदेन तन् नानानामतां कथम् । वाग्मिनां वदतां यातं चित्राभिश् शास्त्रदृष्टिभिः
यं यं भावम् उपादत्ते मनो मननचञ्चलम् । तं तम् एति घनामोदमध्यस्थः पवनो यथा
ततस् तम् एव निर्णीय तम् एव च विकल्पयन् । अन्तस् तया रञ्जनया रञ्जयन् स्वाम् अहङ्कृतिम्