तस्मिन् प्रसर्पत्य् अङ्गेषु स्पर्शात् संविद् उदेति हि । पुष्टत्वात् सैति चित्ताख्याम् अन्तर्लीनजगद्भ्रमा
सेक्षणादिषु रन्ध्रेषु प्रसर्पन्ती बहिर्मयम् । नानाकारविकाराढ्यं रूपम् आत्मनि पश्यति
तत्स्थिरत्वात् तथैवाथ जाग्रद् इत्य् अवगम्यते । जाग्रत्क्रम इति प्रोक्तस् सुषुप्तादिक्रमं शृणु
मनसा कर्मणा वाचा यदा क्षुभ्यति नो वपुः । शान्त आतिष्ठति स्वच्छो जीवधातुस् तदा त्व् असौ
समताम् आगतैर् वातैः क्षोभ्यते न हृदन्तरे । निर्वातसदने दीपो यथालोकैककारकः
ततस् सरति नाङ्गेषु संवित् क्षुभ्यति तेन नो । न चेक्षणादीन्य् आयाति रन्ध्राण्य् आयाति नो बहिः
जीवो ऽन्तर् एव स्फुरति तैलसंविद् यथा तिले । शीतसंविद् धिम इव स्नेहसंविद् यथा घृते
जीवः कालकलां काञ्चित् तिष्ठञ् शान्ततयात्मनि । दशाम् आयाति सौषुप्तीं सौम्यवातां विचेतनाम्
ज्ञात्वा चेतस्य् उपरते शाम्यन् व्यवहरन्न् अपि । जाग्रत्स्वप्नसुषुप्तेषु प्रबुद्धस् तुर्यवान् स्मृतः
सौषुप्तात् सोम्यतां यातैः प्राणैस् सञ्चाल्यते यदा । स जीवधातुस् सा संवित् ततश् चित्ततयोदिता
स्वान्तस्संस्थं जगज्जालं भागभागैः क्रमभ्रमैः । पश्यति स्वान्तर् एवाशु स्फारं बीजम् इव द्रुमम्
जीवधातुर् यदा वातैः किञ्चित् सङ्क्षोभ्यते भृशम् । तदोह्यते ऽम्बर इव पश्यत्य् आत्मनि खे गतिम्
यदाम्भसा प्लाव्यते ऽसौ तदा वार्यादिसम्भ्रमम् । अन्तर् एवानुभवति स्वामोदं कुसुमं यथा
यदा पित्तादिनाक्रान्तस् तदाग्न्यौष्ण्यादिसम्भ्रमम् । अन्तर् एवानुभवति स्फारं बहिर् इवाखिलम्
रक्तापूर्णो रक्तवर्णान् देशकालान् बहिर् यदा । पश्यत्य् अनुभवात्मत्वात् तत्रैव च निमज्जति
सेवते वासनां यां तां सो ऽन्तः पश्यति निद्रितः । पवनैः क्षोभितो रन्ध्रैर् बहिर् अक्षादिभिर् यथा
अनाक्रन्तेन्द्रियच्छिद्रो यद् अक्षुब्धो ऽन्तर् एव सः । संविदानुभवत्य् आशु स स्वप्न इति कथ्यते
समाक्रन्तेन्द्रियच्छिद्रो यत् क्षुब्धो बाह्यसंविदा । परिपश्यति तज् जाग्रद् इत्य् आहुर् मतिमत्तमाः
इति विदितवता त्वयाधुनान्तः प्रथितमहामतिनेह सत्यतास्था । असति जगति नैव भावनीया मृतिहृतिसंसृतिदोषभावनी या
दृढनिश्चयवच् चेतो यद् भावयति भूरिशः । तत्तां यात्य् अनलाश्लेषाद् अयःपिण्डो ऽग्निताम् इव
भावाभावग्रहोत्सर्गदृशश् चित्तेन कल्पिताः । नासत्या नापि सत्यास् ता मनश्चापलकारणाः
मनो हि हेतुः कर्तृ स्यात् कारणं च जगत्स्थितेः । विश्वरूपतयैवेदं तनोति मलिनं मनः
मनो हि पुरुषो राम तन् नियोज्यं शुभे पथि । तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः
शरीरं चेच् छरीरं स्यात् कथं शुक्रो महामतिः । अगमद् विविधं भेदं बहुदेहसमुद्भवम्
तस्माच् चित्तं हि पुरुषश् शरीरं चित्तम् एव हि । यन्मयं च भवत्य् एतत् तद् अवाप्नोत्य् असंशयम्
यद् अतुच्छम् अनायासम् अनुपाधि गतभ्रमम् । यत्नात् तदनुसन्धानं कुरु तत्तां च यास्यसि
अभिपतति मनस्स्थितिं शरीरं न तु वपुराचरितं मनः प्रयाति । अभिपततु तवात्र तेन सत्यं सुभग मनः प्रजहात्व् असत्यम् अन्यत्
दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये । म्लाना संविन् मनोनाम्नी कुतः केयम् उपस्थिता
यस्माद् अन्यन् न नामास्ति न भूतं न भविष्यति । कुतः कीदृक् कथं तस्य कलङ्कः कुत्र विद्यते
साधु राम त्वया प्रोक्तं जाता ते मोक्षभागिनी । मतिर् उत्तमनिष्ष्यन्दा नन्दनस्येव मञ्जरी