सम्पश्यतीतरान् कश्चिद् बहीरूपेण चिद्घनान् । सर्वगत्वाद् अनाशत्वाद् दृश्यबीजस्य वै चितेः
अन्तर् एवाखिलं कश्चित् पश्यत्य् अविकलं जगत् । तत्रातिकालं कलनाद् उन्मज्जति निमज्जति
स्वप्नात् स्वप्नान्तरं तत्र तथा पश्यन् पुनः पुनः । मिथ्यावटेषु लुठितश् शिलेव शिखरच्युता
केचित् सम्मीलिताः केचिद् आत्मन्य् एव भ्रमे स्थिताः । मग्नास् स्वसंविद्रसतस् स्फुरन्तो देहिषण्डकाः
स्वयम् अन्तः प्रपश्यन्ति ये जगज्जीवसम्भ्रमम् । तैः कैश्चित् तत् तथा दृश्यम् असत्स्वप्नवद् आश्रितम्
सर्वात्मत्वात् स्वभावस्य तद् दृश्यं सत्यम् आत्मनि । सर्वगो विद्यते यत्र तत्र सर्वम् उदेति हि
जीवान्तः प्रतिभासस्य सर्गस्य पुनर् अन्तरे । जीवषण्ड उदेत्य् उच्चैस् तस्यान्तर् इतरो ऽपि च
जीवान्तर् जायते जीवस् तस्यान्तर् अपि जीवकः । सर्वत्र रम्भादलवज् जीवबीजं प्रजीवति
दृश्यबुद्धिपरावृद्धि समम् एतद् अनन्तकम् । हेम्नीव कटकादित्वं परिज्ञप्त्यैव नश्यति
विचारो यस्य नोदेति को ऽहं किम् इदम् इत्य् अलम् । तस्याद्यन्ताविमुक्तो ऽसौ दीर्घो जीवज्वरभ्रमः
विचारः फलितस् तस्य विज्ञेयो यस्य सन्मतेः । दिनानुदिनम् आयाति तानवं भोगगृध्नुता
यथा देहोपयुक्तं हि करोत्य् आरोग्यम् औषधम् । तथेन्द्रियजये न्यस्तो विवेकः फलितो भवेत्
विवेको ऽस्ति वचस्य् एव चित्रे ऽग्निर् इव भासुरः । यस्य तेन परित्यक्ता दुःखायैव विवेकिता
यथा स्पर्शेन पवनस् सत्ताम् आयाति नो गिरा । तथेच्छातानवेनैव विवेको ऽस्येति बुध्यते
चित्रामृतं नामृतम् एव विद्धि चित्रानलं नानलम् एव विद्धि । चित्रे ऽङ्गना नूनम् अनङ्गनैव वाचा विवेकस् त्व् अविवेक एव
पूर्वं विवेकेन तनुत्वम् एति रागो ऽथ वैरं च समूलम् एव । पश्चात् परिक्षीयत एव यत्र स पावनस् तत्र विवेकितास्ति
अथोत्पत्तिप्रकरणाद् अनन्तरम् इदं शृणु । स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत्
चिद्घनैकघनात्मत्वाज् जीवान्तर् जीवजातयः । कदलीदलवत् सन्ति कीटा इव नरोदरे
यो यो राम यथा ग्रीष्मे कल्कस्वेदाद् भवेत् क्रिमिः । तत्तन्नाम तथा चित्त्वात् खं जीवीभवति स्वतः
यथा यथा यतन्ते ते जीवकास् स्वात्मसिद्धये । तथा तथा भवन्त्य् आशु विचित्रोपासनक्रमैः
देवान् देवयजो यक्षयजो यक्षान् व्रजन्ति हि । ब्रह्म ब्रह्मयजो यान्ति यद् अतुच्छं तद् आश्रयेत्
स शुक्रो भृगुपुत्रो हि निर्मलत्वात् स्वसंविदः । बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः
अभिजातापरिम्लाना बाला यत् प्रथमं पुरः । संवित् प्राप्नोति तद्रूपा भवत्य् अन्या न काचन
जाग्रत्स्वप्नदशाभेदं भगवन् वक्तुम् अर्हसि । कथं च जाग्रज् जाग्रत् स्यात् स्वप्नो ऽजाग्रत् कथं भवेत्
स्थिरप्रत्यययुक्तं यत् तज् जाग्रद् इति कथ्यते । अस्थिरप्रत्ययं यत् स्यात् स स्वप्नस् समुदाहृतः
जाग्रच् चेत् क्षणदृष्टं स्यात् स्वप्नः कालान्तरस्थितः । तज् जाग्रत् स्वप्नताम् एति स्वप्नो जाग्रत्त्वम् ऋच्छति
जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरतां विना । समस् सदैव सर्वत्र समस्तानुभवो ऽनयोः
यद् एव स्थिरताम् एति तज् जाग्रद् इति कथ्यते । क्षणभङ्गात्मकस् स्वप्नो यथा भवति तच् छृणु
जीवधातुश् शरीरे ऽन्तर् विद्यते येन जीव्यते । तेजो वीर्यं जीवधातुर् इत्याद्यभिधम् अङ्ग तत्
व्यवहारी यदा कायो मनसा कर्मणा गिरा । भवेत् तदा स सम्पन्नो जीवधातुः प्रसर्पति