तस्या नर्तनलोलाया जगन्मण्डपकोटरे । अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे
चारुभूषणम् अङ्गेषु देवलोकान्तरावली । आपातालं नभो लम्बं कवरीमण्डलं बृहत्
नरकाली च मञ्जीरमाला कलकलाकुला । प्रोता दुष्कृतसूत्रेण पातालचरणे चला
कस्तूरिकातिलककं क्रियासख्योपकल्पितम् । चित्रितं चित्रगुप्तेन यामे वदनपट्टके
कालीरूपम् उपस्थाय कल्पान्तेषु क्रियाकुलम् । नृत्यत्य् एषा पुनर् देवी स्फुटच्छैलघनारवम्
पश्चात्प्रलम्बविभ्रान्तकौमाररथबर्हिभिः । नेत्रत्रयबृहद्रन्ध्रभूरिभाङ्कारभीषणैः
लम्बलोलशरच्चन्द्रवितीर्णहरमूर्धजैः । उच्चरच्चारुमन्दारगौरीकवरिचामरैः
उत्ताण्डवाचलाकारभैरवोदरतुम्बकैः । रणत्सहस्ररन्ध्रेन्द्रदेहभिक्षाकपालकैः
शुष्का शरीरखट्वाङ्गभङ्गैर् आपूरिताम्बरम् । भाययत्य् आत्मनात्मानम् अपि कृष्णैर् घनासितम्
विश्वरूपशिरश्चक्रचारुपुष्करमालया । ताण्डवेषु विवल्गन्ती महाकल्पेषु राजते
प्रमत्तपुष्करावर्तडमरूड्डामरारवैः । तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः
नृत्यतो ऽन्ते कृतान्तस्य चन्द्रमण्डलहासिनः । तारकाचन्द्रिकाचारुव्योमपिञ्छावचूलिनः
एकस्मिञ् श्रवणे दीर्घा हिमवान् अस्ति मुद्रिका । अपरे ऽपि महामेरुः कान्ता काञ्चनकर्णिका
अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले । लोकालोकाचलश्रेणी सर्वतः कटिमेखला
इतश् चेतश् च गच्छन्ती विद्युद्वलयवर्णिका । अनिलान्दोलिता भाति नीरदांशुकपट्टिका
मुसुलैः पट्टिसैश् शूलैः प्रासैस् तोमरमुद्गरैः । तीक्ष्णैः क्षीणजगद्व्रातकृतान्तैर् इव सम्भृतैः
संसारबन्धनादीर्घे पाशे कालकरच्युते । शेषभोगमहासूत्रे प्रोतैर् मालास्य शोभते
जीवोल्लसन्मकरिकारत्नतेजोभिर् उज्ज्वला । सप्ताब्धिकङ्कणश्रेणी भुजयोर् अस्य भूषणम्
व्यवहारमहावर्ता सुखदुःखपरम्परा । रजःपूर्णा तमश्श्यामा रोमाली तस्य राजते
एवम्प्रायां स कल्पान्ते कृतान्तस् ताण्डवोद्भटाम् । उपसंहृत्य नृत्तेहां सृष्ट्या सह महेश्वरः
पुनर् हास्यमयीं नृत्तलीलां सर्वस्वरूपिणीम् । तनोतीमां जरादुःखशोकाभिनयभूषिताम्
भूयः करोति भुवनानि वनान्तराणि लोकान्तराणि जनजालककल्पनां च । आचारचारुकलनां च चलाचलां च पङ्काद् यथार्भकजनो रचनाम् अखिन्नः
वृत्ते ऽस्मिन्न् एव चैतेषां कालादीनां महामुने । संसारनाम्नि कैवास्था मादृशानां भवत्व् इह
विक्रीता इव तिष्ठाम एतैर् दैवादिभिर् वयम् । धूर्तैः प्रपञ्चचतुरैर् मुग्धा वनमृगा इव
एषो ऽनार्यसमाचारः कालः कवलनोन्मुखः । जगत्य् अविरतं लोकं पातयत्य् आपदर्णवे
दहत्य् अन्ते दुराशाभिर् दैवो दारुणचेष्टया । लोकं पुष्पनिकाशाभिर् ज्वालाभिर् दहनो यथा
धृतिं विधुरयत्य् एकामयदा रूपवल्लभा । स्त्रीत्वात् स्वभावचपला नियतिर् नियमोन्मुखी
ग्रसते ऽविरतं भूतजालं सर्प इवानिलम् । कृतान्तः कर्कशाचारो जरां नीत्वा जगद्वपुः
यमनिर्घृणराजेन्द्रो नार्तं नामानुकम्पते । सर्वभूतदयाचारो जनो दुर्लभतां गतः
सर्वा एव मुने फल्गुविभवा भूतजातयः । दुःखायैव दुरन्ताय दारुणा लोभभूमयः