सर्वशक्तिमता राज्ञा यद् यत् सम्पाद्यते यथा । तत् तत् तथा भवत्य् आशु स एवोदेति तत्तया
यथा मधुरसोल्लासष् षण्डो भवति भासुरः । रसताम् अजहच् चैव फलपुष्पदलोन्नतः
चिदुल्लासस् तथा जीवो भूत्वा भवति देहकः । चिन्मात्रतां ताम् अजहद् एव दर्शनदृङ्मयः
नानाषण्डसहस्रौघैर् अद्वितीयैर् निजात्मनः । यथोदेति रसो भौमश् चित् तथोदेत्य् अहम्भ्रमैः
चिद्रसोल्लासवृक्षाणां कचताम् आत्मनात्मनि । दृश्यशाखाशताढ्यानाम् इह नान्तो ऽवगम्यते
षण्डः प्रत्येकम् एवान्तर् यथा रसचमत्कृतिम् । स्वादयत्य् एवम् एषा चित् पृथक् पश्यति संसृतीः
या योदेति यथा यस्या जीवशक्तेस् स्वसंसृतिः । ताम् तां तथैति सा स्वान्तश् चिद् भूतभुवनस्थितिम्
जीवसंसृतयः काश्चित् प्रमिलन्ति परस्परम् । स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः
सूक्ष्मया परया दृष्ट्या स्वं पश्यस्य् अनया तथा । जगज्जालसहस्राणि परमाण्वन्तरेष्व् अपि
भित्तौ नभसि पाषाणे ज्वालायाम् अनिले जले । सन्ति संसारलक्ष्याणि तिले तैलम् इवाखिले
शुद्धिम् एति यदा चेतस् तदा जीवो भवेच् चितिः । शुद्धा च सा सर्वगता तेन सम्मेलनं मिथः
सर्वेषां पद्मजादीनां स्वसत्ताभ्रमपूरकः । जगद्दीर्घमहास्वप्नस् स्वयम् अन्तस् समुत्थितः
स्वप्नात् स्वप्नान्तरं यान्ति काश्चिद् भूतपरम्पराः । तेनोपलम्भः कुड्यादाव् आसां दृढतरस् स्थितः
यद् यत्र चिद् भावयति तत् तत्राशु भवत्य् अलम् । तया स्वप्ने ऽपि यद् दृष्टं तत्काले सत्यम् एव तत्
चिदणोर् अन्तरे सन्ति समस्तानुभवाणवः । यथा बीजान्तरे पत्त्रलतापुष्पफलाणवः
परमाणुं जगद् अन्तर् धत्ते चित्परमाणुकः । लीनम् आकाशम् आकाशे द्वैतैक्यभ्रमम् उत्सृज
देशकालक्रियाद्याख्यैस् स्वैर् एवाणुभिर् एव चित् । अणून् अनुभवत्य् अन्तर् इतराणोर् असम्भवात्
स्वयं सर्वस्य कचितस् स्वच्छश् चिदणुषण्डकः । ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः
कचितं किञ्चिद् एवेह वस्तुतस् तु न किञ्चन । स्वयं स्वत्वं स्वादयन्ते द्वैतं चित्परमाणवः
स्वयं प्रकचति स्फारदेहश् चिदणुषण्डकः । नेत्रादिकुसुमद्वारैस् संविदामोदम् उद्गिरन्
सम्पश्यतीतरान् कश्चिद् बहीरूपेण चिद्घनान् । सर्वगत्वाद् अनाशत्वाद् दृश्यबीजस्य वै चितेः
अन्तर् एवाखिलं कश्चित् पश्यत्य् अविकलं जगत् । तत्रातिकालं कलनाद् उन्मज्जति निमज्जति
स्वप्नात् स्वप्नान्तरं तत्र तथा पश्यन् पुनः पुनः । मिथ्यावटेषु लुठितश् शिलेव शिखरच्युता
केचित् सम्मीलिताः केचिद् आत्मन्य् एव भ्रमे स्थिताः । मग्नास् स्वसंविद्रसतस् स्फुरन्तो देहिषण्डकाः
स्वयम् अन्तः प्रपश्यन्ति ये जगज्जीवसम्भ्रमम् । तैः कैश्चित् तत् तथा दृश्यम् असत्स्वप्नवद् आश्रितम्
सर्वात्मत्वात् स्वभावस्य तद् दृश्यं सत्यम् आत्मनि । सर्वगो विद्यते यत्र तत्र सर्वम् उदेति हि
जीवान्तः प्रतिभासस्य सर्गस्य पुनर् अन्तरे । जीवषण्ड उदेत्य् उच्चैस् तस्यान्तर् इतरो ऽपि च
जीवान्तर् जायते जीवस् तस्यान्तर् अपि जीवकः । सर्वत्र रम्भादलवज् जीवबीजं प्रजीवति
दृश्यबुद्धिपरावृद्धि समम् एतद् अनन्तकम् । हेम्नीव कटकादित्वं परिज्ञप्त्यैव नश्यति
विचारो यस्य नोदेति को ऽहं किम् इदम् इत्य् अलम् । तस्याद्यन्ताविमुक्तो ऽसौ दीर्घो जीवज्वरभ्रमः