प्रवृत्तिभाजो ये जीवास् ते तन्मात्रपदं गताः । तन्मात्रैकतया सर्गान् मिथः पश्यन्ति कल्पितान्
तन्मात्रैक्यप्रणालेन चित्रास् सर्गजलाशयाः । परस्परं सम्मिलन्ति घनतां यान्ति चाभितः
केचित् पृथक् स्थितिम् इताः पृथग् एव लयं गताः । केचिन् मिथस् सम्मिलिता जगत्षण्डास् स्थिताः कृताः
जगत्षण्डसहस्राणि यत्रासङ्ख्यान्य् अणाव् अणौ । अपरस्परलग्नानि काननं ब्रह्म नाम तत्
मिथस् स मेलनं नैति घनतां समुपागतः । यद् यद् यत्र यथा रूढं तत् तत् पश्यति नेतरत्
वर्तमानमनोराज्यवशाज् जीवपरम्पराः । परस्परं सम्मिलितास् सर्गाणां रूढिभावनाः
देहसत्ता भृशं रूढा देहाभावस् तु विस्मृतः । देहत्वपरिरूढत्वाच् चिद्व्योम्ना विस्मृतात्मना
यथा शुद्धप्राणमरुत् परप्राणाभिवेधनात् । वेत्ति वेध्यमनोराज्यं तथा सर्गान् नराश्रयी
सर्वेषां जीवराशीनाम् आत्मावस्थात्रयं श्रितः । जाग्रत्स्वप्नसुषुप्ताख्यम् अत्र देहो न कारणम्
एवम् आत्मनि जीवत्वम् अन्यावस्थात्रयात्मनि । तापाम्भसीव वीचित्वम् अस्मिन् कचति देहता
चित्कलापदम् आसाद्य सुषुप्तान्तपदे स्थितम् । बुद्धो निवर्तते जीवो मूढस् सर्गे प्रवर्तते
स्वभावशुद्धिर् हि यदा तदा मैत्री प्रवर्तते । द्वयोर् एकत्वरूपैव स्वसौहार्दनिदर्शना
अज्ञस् सुषुप्तात् सम्बुद्धो जीवः कश्चित् स्वसर्गभाक् । सर्वगत्वाच् चितः कश्चित् परसर्गेण नीयते
सर्गे सर्गे पृथग्रूपं सन्ति सर्गान्तराण्य् अपि । तेष्व् अप्य् अन्तस्स्थसर्गौघाः कदलीदलपीठवत्
सर्गे सर्गान्तरापूरपत्त्रपीवरवृत्तिमान् । स्वभावशीतलो ब्रह्मकदलीदलमण्डपः
कदल्याम् अन्यता नास्ति यथा पत्त्रशतेष्व् अपि । ब्रह्मतत्त्वे ऽन्यता नास्ति तथा सर्गशतेष्व् अपि
बीजात् फलं रसाद् भूत्वा यथा बीजं पुनर् भवेत् । तथा ब्रह्म मनो भूत्वा बोधाद् ब्रह्म पुनर् भवेत्
रसकारणकं बीजं फलभावेन जृम्भते । ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते
रसस्य कारणं किं स्याद् इति वक्तुं न युज्यते । स्वभावो निर्विशेषत्वात् परं वक्तुं न युज्यते
न चासत्ता सर्वमये वक्तुं क्वचन शक्यते । नाकारणे कारणादि परे वास्त्य् आदिकारणे
बीजं जहन् निजवपुः फलीभूतं विलोक्यते । ब्रह्माजहन् निजवपुः फलं बीजं च संस्थितम्
बीजस्याकृतिमत् सर्वं तेनानाकृति तत्पदम् । न युज्यते समीकर्तुं तस्मान् नास्त्य् उपमा शिवे
खम् एव जायते खाभान् न च तज् जायते ऽन्यदृक् । अतो न जातं वा जातं विद्धि ब्रह्मनभो जगत्
दृश्यं पश्यन् स्वम् आत्मानं न द्रष्टा सम्प्रपश्यति । प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः
मृगतृष्णाजलभ्रान्तौ सत्यां केव विदग्धता । विदग्धतायां सत्यां तु केवासौ मृगतृष्णिका
आकाशविशदो द्रष्टा सर्वगो ऽपि न पश्यति । नेत्रं निजम् इवात्मानं दृशीभूतम् अहो भ्रमः
आकाशविशदं ब्रह्म यत्नेनापि न लभ्यते । दृश्ये दृश्यतयादृष्टे त्व् अस्य लाभस् सुदूरतः
त्वादृक्स्थूलो ऽवधानेन विना यत्र न दृश्यते । तत्रातिदूरोदस्तैव द्रष्टुस् सूक्ष्मस्य दृश्यता
द्रष्टा द्रष्टैव भवति न तु स्पृशति दृश्यताम् । दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते
द्रष्टैव सम्भवत्य् एको न तु दृश्यम् इहास्ति हि । द्रष्टा सर्वात्मको दृश्यं स्थितश् चेत् केव दृश्यता