एवंरूपैव हि परे वर्तते सर्गसंसृतिः । न वास्तवी वस्तुतस् तु संस्थितेयम् अवस्तुनि
प्रत्येकम् उदितं विश्वम् एवम् एव मुधैव हि । नवगुल्मकरूपेण वासन्तिकरसो यथा
प्रथमो ऽयं स्वसङ्कल्पस् सुप्रथाम् आगतस् तथा । यथातिपारमार्थ्येन दृढेनेत्थं विभाव्यते
प्रत्येकम् उदितं चित्तं स्वस्वभावोदरस्थितम् । इदम् इत्थंसमारम्भं जगत् पश्यद् विनश्यति
प्रतिभासवशाद् अस्ति नास्ति वस्त्ववलोकनात् । दीर्घस् स्वप्नो जगज्जालम् आलानं चित्तदन्तिनः
चित्तसत्तैव हि जगज् जगत्सत्तैव चित्तकम् । एकाभावे द्वयोर् नाशस् तच् च सत्यविचारणात्
शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः । निष्कलङ्के हि लगति पटे कुङ्कुमरञ्जना
अन्येनानाहृतस्यान्यो गुणो ऽवश्यं विवर्धते । अनाक्रान्तस्य सङ्कल्पैः प्रतिभोदेति चेतसः
सुवर्णो न स्थितिं याति मलवत्य् अंशुके यथा । एका दृष्टिस् स्थितिं याति न म्लाने चित्तके तथा
प्रमार्जनाद् इव मणेस् ताम्रस्येव च युक्तितः । चिरम् एकदृढाभ्यासाच् छुद्धिर् भवति चेतसः
प्रतिभासात्मनि जगत्य् एते कालक्रियाक्रमाः । सोदयास्तमया जाताः कथं शुक्रस्य चेतसः
यादृग् जगद् इदं दृष्टं शुक्रेण पितृमातृतः । तादृक् तस्य स्थितं चित्ते मयूराण्डे मयूरवत्
स्वभावकोशात् स्वदितं तद् अनेन क्रमोदितम् । बीजेनाङ्कुरपत्त्रादिलतापुष्पफलं यथा
जीवो यद्वासनासारस् तद् एवान्तः प्रपश्यति । स्वप्न एवात्र दृष्टान्तो दीर्घस्वप्नस् त्व् इदं जगत्
प्रत्येकम् उदितो राम ननु संसारषण्डकः । रात्रौ सैन्यनरस्वप्नजालवत् स्वात्मनि स्फुटः
एष संसृतिषण्डौघो मिथस् सम्मिलति स्वयम् । नो वापि यदि तन् मे त्वं यथावद् वक्तुम् अर्हसि
मलिनं हि मनो ऽवीर्यं न मिथश् श्लेषम् अर्हति । अयो ऽयसीवासन्तप्ते शुद्धे तप्ते तु लीयते
चित्ततत्त्वानि शुद्धानि सम्मिलन्ति परस्परम् । एकरूपाणि तोयानि यान्त्य् ऐक्यं नाबिलानि हि
शुद्धिर् हि चित्तस्य विवासनत्वम् अभूतसंवेदनरूपम् एकम् । तस्यास् सुषुप्तात्मपदात् प्रबुध्य तन्मात्रयुक्त्या परसङ्गम् एति
प्रवृत्तिर् वा निवृत्तिर् वा तन्मात्रापत्तिपूर्वकम् । सर्वस्य जीवजातस्य सुषुप्तत्वाद् अनन्तरम्
प्रवृत्तिभाजो ये जीवास् ते तन्मात्रपदं गताः । तन्मात्रैकतया सर्गान् मिथः पश्यन्ति कल्पितान्
तन्मात्रैक्यप्रणालेन चित्रास् सर्गजलाशयाः । परस्परं सम्मिलन्ति घनतां यान्ति चाभितः
केचित् पृथक् स्थितिम् इताः पृथग् एव लयं गताः । केचिन् मिथस् सम्मिलिता जगत्षण्डास् स्थिताः कृताः
जगत्षण्डसहस्राणि यत्रासङ्ख्यान्य् अणाव् अणौ । अपरस्परलग्नानि काननं ब्रह्म नाम तत्
मिथस् स मेलनं नैति घनतां समुपागतः । यद् यद् यत्र यथा रूढं तत् तत् पश्यति नेतरत्
वर्तमानमनोराज्यवशाज् जीवपरम्पराः । परस्परं सम्मिलितास् सर्गाणां रूढिभावनाः
देहसत्ता भृशं रूढा देहाभावस् तु विस्मृतः । देहत्वपरिरूढत्वाच् चिद्व्योम्ना विस्मृतात्मना
यथा शुद्धप्राणमरुत् परप्राणाभिवेधनात् । वेत्ति वेध्यमनोराज्यं तथा सर्गान् नराश्रयी
सर्वेषां जीवराशीनाम् आत्मावस्थात्रयं श्रितः । जाग्रत्स्वप्नसुषुप्ताख्यम् अत्र देहो न कारणम्
एवम् आत्मनि जीवत्वम् अन्यावस्थात्रयात्मनि । तापाम्भसीव वीचित्वम् अस्मिन् कचति देहता