बभूवतुः पितापुत्रौ ताव् अथान्योऽन्यशोभितौ । निशावसानमुदिताव् अर्कपद्माकराव् इव
चिरसङ्गमसम्बद्धाव् इव चक्राह्वदम्पती । घनागमघनस्नेहौ मयूरजलदाव् इव
चिरकालदृढोत्कण्ठयोग्यया कथया तया । स्थित्वा तत्र मुहूर्तं ताव् अथोत्थाय महामती
समङ्गाद्विजदेहं तं भस्मसात् तत्र चक्रतुः । को हि नाम जगज्जात आचारं नानुतिष्ठति
एवं तौ कानने तस्मिन् पावने भृगुभार्गवौ । संस्थितौ तपसा दीप्तौ दिवीव शशिभास्करौ
चेरतुर् ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू । देशकालदशौघेषु सुगमं सुस्थिरं तपः
अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् । भृगुर् अप्य् आत्मनो योग्ये पदे ऽतिष्ठद् अनामये
शुक्रो ऽसौ प्रथमम् इति क्रमेण जात एतस्मात् परमपदाद् उदारकीर्तिः । स्वेनाशु स्मृतिपदविभ्रमेण पश्चाद् एवं च प्रविलुलितो दशान्तरेषु
इदम्प्रथमम् उत्पन्ना सा तदा ब्रह्मणः पदात् । शुद्धा मतिर् भार्गवस्य नान्यजन्मकलङ्किता
सर्वैषणानां संशान्तौ शुद्धा चित्तस्य या स्थितिः । तत् सत्त्वम् उच्यते सैषा विमला चिद् उदाहृता
मनो निर्मलसत्त्वात्म यद् भावयति यादृशम् । तत् तथाशु भवत्य् एव यथावर्तो ऽर्णवे ऽम्भसः
यथा भृगुसुतस्यैष विभ्रमः प्रोदितस् स्वयम् । प्रत्येकम् अप्य् एवम् एव दृष्टान्तो ऽत्र भृगोस् सुतः
बीजस्याङ्कुरपत्त्रादि स्वं चमत्कुरुते यथा । सर्वेषां भूतसङ्घानां भ्रमषण्डस् तथैव हि
यद् इदं दृश्यते विश्वम् एवम् एवाखिलं हि तत् । प्रत्येकम् उदितं मिथ्या मिथ्यैवास्तम् उपैति च
नास्तम् एति न चोदेति जगत् किञ्चन कस्यचित् । भ्रान्तिमात्रम् इदं माया मुधैव परिजृम्भते
यथास्मत्प्रतिभासस्थस् सो ऽयं संसारषण्डकः । तथा तेषां सहस्राणि मिथो ऽदृष्टानि सन्ति हि
स्वप्नसङ्कल्पनगरव्यवहाराः परस्परम् । पृथग् यथा न दृश्यन्ते तथैते संसृतिभ्रमाः
एवं नगरवृन्दानि नभस्सङ्कल्परूपिणाम् । सन्ति तानि न दृश्यन्ते मिथो ज्ञानदृशं विना
पिशाचयक्षरक्षांसि सन्त्य् एवंरूपकाणि हि । सङ्कल्पमात्रदेहानि सुखदुःखमयानि च
एवम् एव वयं चेमे सम्पन्ना रघुनन्दन । स्वसङ्कल्पात्मकाकारा मिथ्यासत्यत्वभाविताः
एवंरूपैव हि परे वर्तते सर्गसंसृतिः । न वास्तवी वस्तुतस् तु संस्थितेयम् अवस्तुनि
प्रत्येकम् उदितं विश्वम् एवम् एव मुधैव हि । नवगुल्मकरूपेण वासन्तिकरसो यथा
प्रथमो ऽयं स्वसङ्कल्पस् सुप्रथाम् आगतस् तथा । यथातिपारमार्थ्येन दृढेनेत्थं विभाव्यते
प्रत्येकम् उदितं चित्तं स्वस्वभावोदरस्थितम् । इदम् इत्थंसमारम्भं जगत् पश्यद् विनश्यति
प्रतिभासवशाद् अस्ति नास्ति वस्त्ववलोकनात् । दीर्घस् स्वप्नो जगज्जालम् आलानं चित्तदन्तिनः
चित्तसत्तैव हि जगज् जगत्सत्तैव चित्तकम् । एकाभावे द्वयोर् नाशस् तच् च सत्यविचारणात्
शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः । निष्कलङ्के हि लगति पटे कुङ्कुमरञ्जना
अन्येनानाहृतस्यान्यो गुणो ऽवश्यं विवर्धते । अनाक्रान्तस्य सङ्कल्पैः प्रतिभोदेति चेतसः
सुवर्णो न स्थितिं याति मलवत्य् अंशुके यथा । एका दृष्टिस् स्थितिं याति न म्लाने चित्तके तथा
प्रमार्जनाद् इव मणेस् ताम्रस्येव च युक्तितः । चिरम् एकदृढाभ्यासाच् छुद्धिर् भवति चेतसः