कालकारणसंशुष्कां भाविपुष्पफलोदयाम् । विवेश तां तनुं बालां सुलताम् इव माधवः
सा ब्राह्मणतनुर् भूमौ विवर्णवदनाङ्गिका । पपात कम्पिता तूर्णं छिन्नमूला लता यथा
तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः । चकाराप्यायनं मन्त्रैस् सकमण्डलुवारिभिः
सर्वनाड्यस् ततस् तन्व्यास् तस्याः पूर्णा विरेजिरे । सरितः प्रावृषीवाम्बुपूरपूरितकोटराः
नलिनी प्रावृषीवासौ मधाव् इव नवा लता । यदा पूर्णा तदा तस्याः प्राणाः पल्लविता बभुः
अथ शुक्रस् समुत्तस्थौ वहत्प्राणसमीरणः । रसमारुतसंयोगाद् आपूर्ण इव वारिदः
पुरो ऽभिवादयाम् आस पितरं पावनाकृतिः । प्रथमोल्लासितो मेघस् स्तनितेनेव पर्वतम्
पिताथ प्राक्तनीं तस्याप्य् आलिलिङ्ग तनुं ततः । स्नेहार्द्रवृत्तिर् जलदश् चिराद् गिरितटीम् इव
भृगुर् ददर्श सस्नेहं प्राक्तनीं तानयीं तनुम् । मत्तो जातो ऽयम् इत्य् आस्था हरत्य् अपि महामतिम्
मत्पुत्रो ऽयम् इति स्नेहो भृगुम् अप्य् अहरत् तदा । परतात्मीयता चेयं यावदाकृति भाविनी
बभूवतुः पितापुत्रौ ताव् अथान्योऽन्यशोभितौ । निशावसानमुदिताव् अर्कपद्माकराव् इव
चिरसङ्गमसम्बद्धाव् इव चक्राह्वदम्पती । घनागमघनस्नेहौ मयूरजलदाव् इव
चिरकालदृढोत्कण्ठयोग्यया कथया तया । स्थित्वा तत्र मुहूर्तं ताव् अथोत्थाय महामती
समङ्गाद्विजदेहं तं भस्मसात् तत्र चक्रतुः । को हि नाम जगज्जात आचारं नानुतिष्ठति
एवं तौ कानने तस्मिन् पावने भृगुभार्गवौ । संस्थितौ तपसा दीप्तौ दिवीव शशिभास्करौ
चेरतुर् ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू । देशकालदशौघेषु सुगमं सुस्थिरं तपः
अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् । भृगुर् अप्य् आत्मनो योग्ये पदे ऽतिष्ठद् अनामये
शुक्रो ऽसौ प्रथमम् इति क्रमेण जात एतस्मात् परमपदाद् उदारकीर्तिः । स्वेनाशु स्मृतिपदविभ्रमेण पश्चाद् एवं च प्रविलुलितो दशान्तरेषु
इदम्प्रथमम् उत्पन्ना सा तदा ब्रह्मणः पदात् । शुद्धा मतिर् भार्गवस्य नान्यजन्मकलङ्किता
सर्वैषणानां संशान्तौ शुद्धा चित्तस्य या स्थितिः । तत् सत्त्वम् उच्यते सैषा विमला चिद् उदाहृता
मनो निर्मलसत्त्वात्म यद् भावयति यादृशम् । तत् तथाशु भवत्य् एव यथावर्तो ऽर्णवे ऽम्भसः
यथा भृगुसुतस्यैष विभ्रमः प्रोदितस् स्वयम् । प्रत्येकम् अप्य् एवम् एव दृष्टान्तो ऽत्र भृगोस् सुतः
बीजस्याङ्कुरपत्त्रादि स्वं चमत्कुरुते यथा । सर्वेषां भूतसङ्घानां भ्रमषण्डस् तथैव हि
यद् इदं दृश्यते विश्वम् एवम् एवाखिलं हि तत् । प्रत्येकम् उदितं मिथ्या मिथ्यैवास्तम् उपैति च
नास्तम् एति न चोदेति जगत् किञ्चन कस्यचित् । भ्रान्तिमात्रम् इदं माया मुधैव परिजृम्भते
यथास्मत्प्रतिभासस्थस् सो ऽयं संसारषण्डकः । तथा तेषां सहस्राणि मिथो ऽदृष्टानि सन्ति हि
स्वप्नसङ्कल्पनगरव्यवहाराः परस्परम् । पृथग् यथा न दृश्यन्ते तथैते संसृतिभ्रमाः
एवं नगरवृन्दानि नभस्सङ्कल्परूपिणाम् । सन्ति तानि न दृश्यन्ते मिथो ज्ञानदृशं विना
पिशाचयक्षरक्षांसि सन्त्य् एवंरूपकाणि हि । सङ्कल्पमात्रदेहानि सुखदुःखमयानि च
एवम् एव वयं चेमे सम्पन्ना रघुनन्दन । स्वसङ्कल्पात्मकाकारा मिथ्यासत्यत्वभाविताः