व्यवहारी यथैवाज्ञस् तथैव किल पण्डितः । वासनामात्रभेदो ऽत्र कारणं बन्धमोक्षयोः
यावच् छरीरं तावद् धि दुःखे दुःखं सुखे सुखम् । असंसक्तधियो धीरा दर्शयन्त्य् अप्रबुद्धवत्
सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु । महात्मानो हि दृश्यन्ते नूनम् अन्तस् तु शीतलाः
स्तम्भस्य प्रतिबिम्बानि क्षुभ्यन्ति न वपुस् स्थिरम् । ज्ञस्य कर्मेन्द्रियाण्य् एव क्षुभ्यन्ति न मनस् स्थिरम्
चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति । अधस्स्थितिर् इव स्वच्छं प्रतिबिम्बेषु भास्करः
सन्त्यक्तलोककर्मापि बद्ध एवाप्रबुद्धधीः । अत्यक्तमोहलीलो ऽपि मुक्त एव प्रबुद्धधीः
मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियो ऽपि हि । बद्धबुद्धीन्द्रियो बद्धो मुक्तकर्मेन्द्रियो ऽपि हि
सुखदुःखदृशोर् लोके बन्धमोक्षदृशोस् तथा । हेतुर् बुद्धीन्द्रियाण्य् एव तेजांसीव प्रकाशने
बहिर् लोकोचिताचारस् त्व् अन्तर् आचारवर्जितः । समो ऽसन्न् इव तिष्ठ त्वं संशान्तसकलैषणः
सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता । कुरु कर्माणि कार्याणि नूनं सामनसि स्थितिः
आधिव्याधिमहावर्ते गर्ते संसारवर्त्मनि । ममतोग्रान्धकूपे ऽस्मिन् मा पतातपदायिनि
न त्वं भावेषु नो भावास् त्वयि तामरसेक्षण । शुद्धबुद्धस्वभावस् त्वम् आत्मसंस्थस् स्थिरो भव
व्यपगतममतामहान्धकारं पदम् अमलं विगतैषणं समेत्य । प्रभवसि यदि चेतसो महात्मंस् तद् अतिधिये महते सते नमस् ते
समङ्गातापसीम् एतां तनुं सन्त्यज्य भार्गव । प्रविशेमां तनुं साधो नगरीम् इव पार्थिवः
काले पूर्वजया तन्वा तपः कृत्वानया पुनः । गुरुत्वम् असुरेन्द्राणां कर्तव्यं भवतानघ
महाकल्पान्त आयाते भवता भार्गवी तनुः । अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत्
जीवन्मुक्तपदं प्राप्तस् तन्वा प्राक्तनरूपया । महासुरेन्द्रगुरुतां कुर्वंस् तिष्ठ महामते
कल्याणम् अस्तु वां यामो वयं त्व् अभिमतां दिशम् । न किञ्चिद् अपि तच् चित्तं यस्य नाभिमतं भवेत्
इत्य् उक्त्वा मुञ्चतोः पुष्पं तयोस् सो ऽन्तरधीयत । तप्तांशुर् इव रोदस्योस् समम् अंशुभिर् अंशुमान्
गते तस्मिन् भगवति ताम् उक्त्वा भवितव्यताम् । विचार्य भार्गवो ऽभेद्यां नियतां नियतेर् गतिम्
कालकारणसंशुष्कां भाविपुष्पफलोदयाम् । विवेश तां तनुं बालां सुलताम् इव माधवः
सा ब्राह्मणतनुर् भूमौ विवर्णवदनाङ्गिका । पपात कम्पिता तूर्णं छिन्नमूला लता यथा
तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः । चकाराप्यायनं मन्त्रैस् सकमण्डलुवारिभिः
सर्वनाड्यस् ततस् तन्व्यास् तस्याः पूर्णा विरेजिरे । सरितः प्रावृषीवाम्बुपूरपूरितकोटराः
नलिनी प्रावृषीवासौ मधाव् इव नवा लता । यदा पूर्णा तदा तस्याः प्राणाः पल्लविता बभुः
अथ शुक्रस् समुत्तस्थौ वहत्प्राणसमीरणः । रसमारुतसंयोगाद् आपूर्ण इव वारिदः
पुरो ऽभिवादयाम् आस पितरं पावनाकृतिः । प्रथमोल्लासितो मेघस् स्तनितेनेव पर्वतम्
पिताथ प्राक्तनीं तस्याप्य् आलिलिङ्ग तनुं ततः । स्नेहार्द्रवृत्तिर् जलदश् चिराद् गिरितटीम् इव
भृगुर् ददर्श सस्नेहं प्राक्तनीं तानयीं तनुम् । मत्तो जातो ऽयम् इत्य् आस्था हरत्य् अपि महामतिम्
मत्पुत्रो ऽयम् इति स्नेहो भृगुम् अप्य् अहरत् तदा । परतात्मीयता चेयं यावदाकृति भाविनी