मत्तनुः परिशुष्केयं स्थितोत्ताना वनावनौ । वैराग्यं नयतीवात्मतुच्छत्वेनाम्बरस्थितान्
शब्दरूपरसस्पर्शगन्धलोभविमुक्तया । निर्विकल्पसमाध्येव मम तन्वोष्यते गिरौ
संशान्ते चित्तवेताले याम् आनन्दकलां तनुः । याति ताम् अपि राज्येन जागतेन न गच्छति
पश्य विश्रान्तसर्वेहं विगताशेषकौतुकम् । निरस्तकल्पनाजालं सुखं शेते कलेवरम्
चित्तमर्कटसंरम्भसङ्क्षुब्धः कायपादपः । तथा वेगेन चलति यथा मूलानि कृन्तति
चित्तानर्थविमुक्तो ऽद्रौ गजाभ्रहरिविभ्रमम् । नायं पश्यति मे देहः परानन्द इव स्थितः
सर्वाशाज्वरसम्मोहमिहिकाशरदागमम् । अचित्तत्वं विना नान्यच् छ्रेयः पश्यामि जन्तुषु
त एव सुखसम्भोगसीमान्तं समुपागताः । महाधियश् शान्तधियो ये याता विमनस्कताम्
सर्वदुःखदशामुक्तां संशान्तां विगतज्वराम् । दिष्ट्या पश्याम्य् अमननां वने तनुम् इमाम् अहम्
भगवन् सर्वधर्मज्ञ भार्गवेण तदा किल । सुबहून्य् उपभुक्तानि शरीराणि पुनः पुनः
भृगुणोत्पादिते काये तत् तस्मिंस् तस्य किं मुने । महान् अतिशयो जातः परिदेवनम् एव वा
शुक्रस्य कलना राम यासौ जीवदशां गता । कर्मात्मिका समुत्पन्ना भृगोर् भार्गवरूपिणी
सा हीदम्प्रथमत्वेन समेत्य परमात् पदात् । भूताकाशपदं प्राप्य वातव्यावलिता सती
प्राणापानप्रवाहेण प्रविश्य हृदयं भृगोः । क्रमेण वीर्यताम् एत्य सम्पन्नौशनसी तनुः
विहितब्राह्मसंस्कारा ततस् सा पितुर् अग्रगा । कालेन महता प्राप्ता शुष्ककङ्कालरूपताम्
इदम्प्रथमम् आयाता यदा सा ब्रह्मणस् तनुः । ततस् तां प्रति शुक्रेण तदा तत् परिदेवितम्
वीतरागो ऽप्य् अनिच्छो ऽपि समङ्गाविप्ररूपवान् । स्वां शुशोच तनुं शुक्रस् स्वभावो ह्य् एष देहजः
किं तु प्रदर्शितं तेन शोकव्याजेन धीमताम् । वैराग्यप्रतिपत्त्यै तत् पृथक्त्वं देहदेहिनोः
ज्ञस्याज्ञस्य च देहस्य यावज्जीवम् अयं क्रमः । लोकवद् व्यवहारो यत् सक्त्यासक्त्याथ वा सदा
ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः । लोकसंव्यवहारेषु ते स्थिता वनजालवत्
व्यवहारी यथैवाज्ञस् तथैव किल पण्डितः । वासनामात्रभेदो ऽत्र कारणं बन्धमोक्षयोः
यावच् छरीरं तावद् धि दुःखे दुःखं सुखे सुखम् । असंसक्तधियो धीरा दर्शयन्त्य् अप्रबुद्धवत्
सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु । महात्मानो हि दृश्यन्ते नूनम् अन्तस् तु शीतलाः
स्तम्भस्य प्रतिबिम्बानि क्षुभ्यन्ति न वपुस् स्थिरम् । ज्ञस्य कर्मेन्द्रियाण्य् एव क्षुभ्यन्ति न मनस् स्थिरम्
चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति । अधस्स्थितिर् इव स्वच्छं प्रतिबिम्बेषु भास्करः
सन्त्यक्तलोककर्मापि बद्ध एवाप्रबुद्धधीः । अत्यक्तमोहलीलो ऽपि मुक्त एव प्रबुद्धधीः
मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियो ऽपि हि । बद्धबुद्धीन्द्रियो बद्धो मुक्तकर्मेन्द्रियो ऽपि हि
सुखदुःखदृशोर् लोके बन्धमोक्षदृशोस् तथा । हेतुर् बुद्धीन्द्रियाण्य् एव तेजांसीव प्रकाशने
बहिर् लोकोचिताचारस् त्व् अन्तर् आचारवर्जितः । समो ऽसन्न् इव तिष्ठ त्वं संशान्तसकलैषणः
सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता । कुरु कर्माणि कार्याणि नूनं सामनसि स्थितिः