भ्रान्तं सन्तानकुञ्जेषु फुल्लहेमलतालिषु । मेरौ कल्पतरुच्छायापुष्पसुन्दरसानुषु
न तद् अस्ति न यद् भुक्तं न तद् अस्ति न यत् कृतम् । न तद् अस्ति न यद् दृष्टम् इष्टानिष्टासु दृष्टिषु
ज्ञातं ज्ञातव्यम् अधुना दृष्टं द्रष्टव्यम् अक्षतम् । विश्रान्तो ऽस्मि चिरश्रान्तो गतो मे सकलो भ्रमः
उत्तिष्ठ तात गच्छामः पश्यामो मन्दरस्थिताम् । तां तनुं तावद् आशुष्कां शुष्कां वनलताम् इव
नासमीहितम् अस्तीह न समीहितम् अस्ति मे । नियते रचनां द्रष्टुं केवलं विहराम्य् अहम्
किम् इति सुभगम् आर्यसेवितं तत् स्थिरम् अनुयामि मदेकभावबुद्ध्या । तद् अलम् अभिमतामतैर् ममास्तु प्रकृतम् इमं व्यवहारम् आचरामि
क्रमाद् आकाशम् आक्रम्य निर्गत्याम्बुदकोटरैः । सम्प्रापुस् सिद्धमार्गेण मन्दरं हेमकन्दरम्
अधित्यकायां तस्याद्रेर् आर्द्रपर्णावगुण्ठिताम् । ददर्श भार्गवश् शुष्कां पूर्वजन्मोद्भवां तनुम्
उवाच चेदं हे तात तन्वी तनुर् इयं हि सा । या त्वया सुखसम्भोगैः पुरा समभिलालिता
इयं सा मत्तनुर् यस्या मन्दारकुसुमोत्करैः । रचिताश् शीतलाश् शय्या मेरूपवनभूमिषु
इयं सा मत्तनुर् मत्तदेवस्त्रीगणलालिता । सरीसृपमुखक्षुण्णा पश्य शेते धरातले
नन्दनोद्यानषण्डेषु मम तन्वा ययानया । चिरं विलसितं सेयं शुष्ककङ्कालतां गता
सुराङ्गनाङ्गसंसङ्गाद् उत्तुङ्गानङ्गरङ्गया । चेतोवृत्त्या रहितया तन्वेह मम शुष्यते
तेषु तेषु विलासेषु तासु तासु दशासु च । तथा ता भावना बद्ध्वा कथं स्वस्थो ऽसि देहक
हा तनो क्वावभग्नासि तापसंशोषम् आगता । करङ्कतां प्रयातासि मां भावयसि दुर्भगे
देहेनाहं विलासेषु येनैव मुदितो ऽभवम् । कङ्कलताम् उपगतात् तस्माद् एव बिभेम्य् अहम्
ताराजालसमाकारो यत्र हारो ऽभवत् पुरा । ममोरसि निलीयन्ते पश्य तत्र पिपीलकाः
द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गनाः । येन मद्वपुषा तेन पश्य कङ्कलतोह्यते
पश्येमे विततास्येन तापसंशुष्ककृत्तिना । मत्कङ्कालकुवक्त्रेण वित्रास्यन्ते वने मृगाः
पश्यातिसंशुष्कतया शवोदरदरी मम । प्रकाशार्कांशुजालेन विवेकेनेव शोभते
मत्तनुः परिशुष्केयं स्थितोत्ताना वनावनौ । वैराग्यं नयतीवात्मतुच्छत्वेनाम्बरस्थितान्
शब्दरूपरसस्पर्शगन्धलोभविमुक्तया । निर्विकल्पसमाध्येव मम तन्वोष्यते गिरौ
संशान्ते चित्तवेताले याम् आनन्दकलां तनुः । याति ताम् अपि राज्येन जागतेन न गच्छति
पश्य विश्रान्तसर्वेहं विगताशेषकौतुकम् । निरस्तकल्पनाजालं सुखं शेते कलेवरम्
चित्तमर्कटसंरम्भसङ्क्षुब्धः कायपादपः । तथा वेगेन चलति यथा मूलानि कृन्तति
चित्तानर्थविमुक्तो ऽद्रौ गजाभ्रहरिविभ्रमम् । नायं पश्यति मे देहः परानन्द इव स्थितः
सर्वाशाज्वरसम्मोहमिहिकाशरदागमम् । अचित्तत्वं विना नान्यच् छ्रेयः पश्यामि जन्तुषु
त एव सुखसम्भोगसीमान्तं समुपागताः । महाधियश् शान्तधियो ये याता विमनस्कताम्
सर्वदुःखदशामुक्तां संशान्तां विगतज्वराम् । दिष्ट्या पश्याम्य् अमननां वने तनुम् इमाम् अहम्
भगवन् सर्वधर्मज्ञ भार्गवेण तदा किल । सुबहून्य् उपभुक्तानि शरीराणि पुनः पुनः