अनन्तविश्रान्तितते पदे विश्रान्तम् आत्मनि । प्रतिबिम्बम् अगृह्णन्तं सितं मणिम् इव स्थितम्
हेयोपादेयसङ्कल्पविकल्पाभ्यां समुज्झितम् । सुप्रबुद्धमतिं धीरं ददर्श तनयं भृगुः
तम् आलोक्य भृगोः पुत्रं कालो भृगुम् उवाच ह । वाक्यम् अब्धिध्वनिनिभं तव पुत्रस् त्व् असाव् इति
विबुध्यताम् इति गिरा समाधेर् विरराम सः । भार्गवो ऽम्भोदघोषेण शनैर् इव शिखण्डभृत्
उन्मील्य नेत्रे सो ऽपश्यद् अग्रे कालभृगू प्रभू । समोदयाव् इवायातौ देवौ शशिदिवाकरौ
कदम्बलतिकापीठाद् अथोत्थाय ननाम तौ । समं समागतौ कान्तौ विप्रौ हरिहराव् इव
मिथः कृतसमाचाराश् शिलायां समुपाविशन् । मेरुपृष्ठे जगत्पूज्या ब्रह्मविष्णुहरा इव
अथ शान्ततपा नाम स समङ्गातटे द्विजः । ताव् उवाच वचश् शान्तम् अमृतस्यन्दसुन्दरम्
भवतोर् दर्शनेनाहम् अद्य निर्वृतिम् आगतः । समम् आगतयोर् लोकं शीतलोष्णरुचोर् इव
यो न शास्त्रैर् न तपसा न ज्ञानेन न विद्यया । विनष्टो मे मनोमोहः क्षीणो ऽसौ दर्शनेन वाम्
न तथा सुखयन्त्य् अन्तर् निर्मलामृतवृष्टयः । यथा प्रहर्षयन्त्य् एता महताम् एव दृष्टयः
चरणाभ्याम् इमं देशं भवन्तौ भूरितेजसौ । कौ पवित्रितवन्तौ नश् शशाङ्कार्काव् इवाम्बरम्
इत्य् उक्तवन्तं प्रोवाच भृगुर् जन्मान्तरात्मजम् । स्मरात्मानं प्रबुद्धो ऽसि नाज्ञो ऽसीति रघूद्वह
प्रबोधितो ऽसौ भृगुणा जन्मान्तरदशा निजाः । मुहूर्तमात्रं सस्मार ध्यानोन्मीलितलोचनः
अथासौ विस्मयस्मेरमुखो मुदितमानसः । वितर्कमन्थरां वाचम् उवाच वदतां वरः
जयत्य् अविरतारम्भा नियतिः परमात्मनः । यद्वशाद् इदम् आभोगि जगच्चक्रं विवर्तते
ममानन्तान्य् अतीतानि जन्मान्य् अविदितानि ह । तानि तान्तदशाढ्यानि संस्मृतान्य् उचितानि च
भुक्तानि बहुकार्याणि विचित्रविभवान्य् अति । दशाफलान्य् अनन्तानि कल्पान्तकलितानि च
दृष्टाः कठिनसंरम्भा विभवोपार्जनभ्रमाः । विहृतं वीतशोकासु चिरं मेरुस्थलीषु च
पीतम् आमोदि मन्दारकुसुमारुणितं पयः । मन्दाकिन्यास् सकल्हारं तटेष्व् अमरभूभृतः
भ्रान्तं सन्तानकुञ्जेषु फुल्लहेमलतालिषु । मेरौ कल्पतरुच्छायापुष्पसुन्दरसानुषु
न तद् अस्ति न यद् भुक्तं न तद् अस्ति न यत् कृतम् । न तद् अस्ति न यद् दृष्टम् इष्टानिष्टासु दृष्टिषु
ज्ञातं ज्ञातव्यम् अधुना दृष्टं द्रष्टव्यम् अक्षतम् । विश्रान्तो ऽस्मि चिरश्रान्तो गतो मे सकलो भ्रमः
उत्तिष्ठ तात गच्छामः पश्यामो मन्दरस्थिताम् । तां तनुं तावद् आशुष्कां शुष्कां वनलताम् इव
नासमीहितम् अस्तीह न समीहितम् अस्ति मे । नियते रचनां द्रष्टुं केवलं विहराम्य् अहम्
किम् इति सुभगम् आर्यसेवितं तत् स्थिरम् अनुयामि मदेकभावबुद्ध्या । तद् अलम् अभिमतामतैर् ममास्तु प्रकृतम् इमं व्यवहारम् आचरामि
क्रमाद् आकाशम् आक्रम्य निर्गत्याम्बुदकोटरैः । सम्प्रापुस् सिद्धमार्गेण मन्दरं हेमकन्दरम्
अधित्यकायां तस्याद्रेर् आर्द्रपर्णावगुण्ठिताम् । ददर्श भार्गवश् शुष्कां पूर्वजन्मोद्भवां तनुम्
उवाच चेदं हे तात तन्वी तनुर् इयं हि सा । या त्वया सुखसम्भोगैः पुरा समभिलालिता
इयं सा मत्तनुर् यस्या मन्दारकुसुमोत्करैः । रचिताश् शीतलाश् शय्या मेरूपवनभूमिषु