तौ शैलाद् अवरोहन्तौ दृष्टवन्तौ महाद्युती । नवहेमलताजालकुञ्जसुप्तान् नभश्चरान्
वल्लीवलयदोलाभिः क्रीडन्तीर् गगनाङ्गनाः । हरिणीमुग्धमुग्धाक्षिप्रेक्षितस्मारितोत्पलाः
सिंहान् अध्यासितोत्तुङ्गशिलाशकलविष्टरान् । धृताकारान् इवोत्साहान् हेलादृष्टजगत्त्रयान्
तालोत्ताललतान्यस्तहस्तान् हस्तिघटापतीन् । मदावलेपनिद्रालून् मदान् मूर्तिम् इवास्थितान्
पुष्पकेसररक्ताङ्गपवनारुणवालधीन् । चञ्चलांश् चमरांश् चारु भूभृन्मङ्गलचालितान्
कृताजस्रपतत्पुष्पधारासारनिमज्जनान् । भ्रमरान् सर्जखर्जूरशाखाशरणतां गतान्
परस्परफलाघातक्ष्वेडाविजितकीचकान् । धातुपाटलसद्वक्त्रान् मर्कटान् अटनोत्कटान्
लतावितानसञ्छन्नसानूपवनमन्दिरान् । सिद्धान् अमरनारीभिर् मन्दारकुसुमाहतान्
धातुपाटलनिर्वारिपयोदपटसंवृतान् । तटान् अजनसंसर्गान् बौद्धान् प्रव्राजितान् इव
सरितः कुन्दमन्दारपिनद्धलहरीघटाः । सागरोत्कतयेवात्तमधुमासप्रसाधनाः
पुष्पभारपिनद्धाङ्गान् वृक्षान् पवनकम्पितान् । क्षीवान् इव मधुप्राप्तौ घूर्णन्मधुकरेक्षणान्
शैलराजश्रियं स्फीतां पश्यन्तौ ताव् इतस् ततः । प्राप्तवन्तौ वसुमतीं पुरपत्तनमण्डिताम्
क्षणाद् अवापतुस् तत्र पुष्पलोलतरङ्गिणीम् । समङ्गां सरितं साधू सर्वपुष्पमयीम् इव
ददर्शाथ तटे तस्याः कस्मिंश्चित् तनयं भृगुः । देहान्तरपरावृत्तं भावम् अन्यम् उपागतम्
शान्तेन्द्रियं समाधिस्थम् अचञ्चलमनोमृगम् । सुचिराद् इव विश्रान्तं सुचिरं श्रमशान्तये
चिन्तयन्तम् इवानन्ताश् चिरभुक्ताश् चिरोज्झिताः । संसारसागरगतीर् हर्षशोकनिरन्तराः
नूनं निश्चलतां यातम् अतिभ्रमितचक्रवत् । अनन्तजगदावर्तविवर्तातिशयाद् इव
एकान्तसंस्थितं कान्तं कान्त्यैकाकिनम् आश्रितम् । उपशान्तेहितं त्यक्तचित्तसम्भ्रमसङ्गमम्
निर्विकल्पसमाधिस्थं विरतं द्वन्द्ववृत्तितः । हसन्तम् अखिला लोकगतीश् शीतलया धिया
विदिताखिलवृत्तान्तं विगताशेषकौतुकम् । निरस्तकल्पनाजालम् आलम्बितमहापदम्
अनन्तविश्रान्तितते पदे विश्रान्तम् आत्मनि । प्रतिबिम्बम् अगृह्णन्तं सितं मणिम् इव स्थितम्
हेयोपादेयसङ्कल्पविकल्पाभ्यां समुज्झितम् । सुप्रबुद्धमतिं धीरं ददर्श तनयं भृगुः
तम् आलोक्य भृगोः पुत्रं कालो भृगुम् उवाच ह । वाक्यम् अब्धिध्वनिनिभं तव पुत्रस् त्व् असाव् इति
विबुध्यताम् इति गिरा समाधेर् विरराम सः । भार्गवो ऽम्भोदघोषेण शनैर् इव शिखण्डभृत्
उन्मील्य नेत्रे सो ऽपश्यद् अग्रे कालभृगू प्रभू । समोदयाव् इवायातौ देवौ शशिदिवाकरौ
कदम्बलतिकापीठाद् अथोत्थाय ननाम तौ । समं समागतौ कान्तौ विप्रौ हरिहराव् इव
मिथः कृतसमाचाराश् शिलायां समुपाविशन् । मेरुपृष्ठे जगत्पूज्या ब्रह्मविष्णुहरा इव
अथ शान्ततपा नाम स समङ्गातटे द्विजः । ताव् उवाच वचश् शान्तम् अमृतस्यन्दसुन्दरम्
भवतोर् दर्शनेनाहम् अद्य निर्वृतिम् आगतः । समम् आगतयोर् लोकं शीतलोष्णरुचोर् इव
यो न शास्त्रैर् न तपसा न ज्ञानेन न विद्यया । विनष्टो मे मनोमोहः क्षीणो ऽसौ दर्शनेन वाम्