अस्योड्डामरलीलस्य दूरास्तसकलापदः । संसारे राजपुत्रस्य कालस्याकलितौजसः
अस्मिन्न् आचरतो दीनैर् मुग्धैर् भूतमृगव्रजैः । आखेटकं जर्जरिते जगज्जङ्गलजालके
एकदेशोल्लसच्चारुवडवानलपङ्कजा । क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः
कटुतिक्ताम्ब्लभूताढ्यैस् सदधिक्षीरसागरैः । तैर् एव तैः पर्युषितैर् जगद्भिः कालवर्तनम्
चण्डी चतुरसञ्चारा सर्वमातृगणान्विता । संसारवनविन्यस्तनरैणाकर्षणी वृकी
पृथ्वी करतले पृथ्वी पानपात्री रसान्विता । कमलोत्पलकल्हारलोलजालकमालिता
विरावी विकटास्फालो नृसिंहो भुजपञ्जरे । सटाविकटपीनांसः कान्तः क्रीडाशकुन्तकः
अलाबुवीणामधुरश् शरद्व्योमामलच्छविः । देवः किल महाकालो लीलाकोकिलबालकः
अजस्रस्फूर्जिताकारो वान्तदुःखशराशनिः । अभावनामकोदण्डः परिस्फुरति सर्वतः
अनुत्तमस्फुरितविलासवर्धितो भ्रमन् हरन् परिविलसन् विदारयन् । जरज्जगज्जरढविलोलमर्कटः परिस्फुरद्वपुर् इह काल ईहते
अत्रैव दुर्विलासानां चूडामणिर् इवापरः । करोत्य् अस्तीति लोकेन दैवं कालश् च कथ्यते
क्रियामात्राद् ऋते यस्य स्वपरिस्पन्दरूपिणः । नान्यद् आलक्ष्यते रूपं कर्मणो न समीहितम्
तेनेयम् अखिला भूतसन्ततिर् नित्यपेलवा । तापेन हिममालेव नीता विधुरतां भृशम्
यद् इदं दृश्यते किञ्चिज् जगदाभोगिमण्डलम् । तत् तस्य नर्तनागारम् इहासाव् अभिनृत्यति
तृतीयं च कृतान्तेति नाम बिभ्रत् सुदारुणम् । कापालिकवपुर् मत्तं दैवं जगति नृत्यति
नृत्यतो हि कृतान्तस्य नितान्तम् अविरामिणः । नित्यं नियतिकान्ताया मुने परमकामिनः
शेषश् शशिकलाशुभ्रो गङ्गावाहश् च तौ त्रिधा । उपवीते अवीताभे उभे संसारवक्षसि
चन्द्रार्कमण्डले हेमकटके करमूलयोः । लीलासरसिजं हस्ते ब्राह्मं ब्रह्माण्डकर्णिकम्
ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् । एकार्णवपयोधौतम् एकम् अम्बरम् अम्बरम्
एवंरूपस्य तस्याग्रे नियतिर् नित्यकामिनी । अनस्तमितसंरम्भम् आरम्भैः परिनृत्यति
तस्या नर्तनलोलाया जगन्मण्डपकोटरे । अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे
चारुभूषणम् अङ्गेषु देवलोकान्तरावली । आपातालं नभो लम्बं कवरीमण्डलं बृहत्
नरकाली च मञ्जीरमाला कलकलाकुला । प्रोता दुष्कृतसूत्रेण पातालचरणे चला
कस्तूरिकातिलककं क्रियासख्योपकल्पितम् । चित्रितं चित्रगुप्तेन यामे वदनपट्टके
कालीरूपम् उपस्थाय कल्पान्तेषु क्रियाकुलम् । नृत्यत्य् एषा पुनर् देवी स्फुटच्छैलघनारवम्
पश्चात्प्रलम्बविभ्रान्तकौमाररथबर्हिभिः । नेत्रत्रयबृहद्रन्ध्रभूरिभाङ्कारभीषणैः
लम्बलोलशरच्चन्द्रवितीर्णहरमूर्धजैः । उच्चरच्चारुमन्दारगौरीकवरिचामरैः
उत्ताण्डवाचलाकारभैरवोदरतुम्बकैः । रणत्सहस्ररन्ध्रेन्द्रदेहभिक्षाकपालकैः
शुष्का शरीरखट्वाङ्गभङ्गैर् आपूरिताम्बरम् । भाययत्य् आत्मनात्मानम् अपि कृष्णैर् घनासितम्
विश्वरूपशिरश्चक्रचारुपुष्करमालया । ताण्डवेषु विवल्गन्ती महाकल्पेषु राजते