इमा जगति विस्तीर्णे शरीरोपलपङ्क्तयः । तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च
आब्रह्मस्तम्बपर्यन्तं स्पन्दनैः पवनो यथा । उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च
ता एताः काश्चिद् अत्यच्छा यथा हरिहरादयः । काश्चिद् अल्पविमोहस्था यथोरगनरामराः
काश्चिद् अत्यन्तमोहस्था यथा तरुतृणादयः । काश्चिद् अज्ञानसम्मूढाः क्रिमिकीटत्वम् आगताः
काश्चित् तृणवद् उह्यन्ते दूरे ब्रह्ममहोदधेः । अप्राप्तभूमिका एता यथोरगनरादयः
तटमात्रं समालोक्य काश्चित् खेदम् उपागताः । जाताजाता निखन्यन्ते कृतान्तजरदाखुना
काश्चिद् अन्तरम् आसाद्य ब्रह्मतत्त्वमहाम्बुधेः । गतास् तत्ताम् अशोकाय हरिब्रह्महरादिकाः
अल्पमोहान्विताः काश्चित् तम् एव ब्रह्मवारिधिम् । अदृष्टरागरोगौघम् अवलम्ब्य व्यवस्थिताः
काश्चिद् भोक्तव्यजन्मौघा भुक्तजन्मौघकोटयः । वन्ध्याः प्रकाशतामस्यस् संस्थिता भूतजातयः
काश्चिद् ऊर्ध्वाद् अधो यान्ति तथाधस्तान् महत् पदम् । ऊर्ध्वाद् ऊर्ध्वतरं काश्चिद् अधस्तात् काश्चिद् अप्य् अधः
बहुसुखदुःखकटङ्कटा क्रियेयं परमपदास्मरणात् समागतेह । परमपदावगमात् प्रयाति नाशं विहगपतिस्मरणाद् विषव्यथेव
मध्याज् जितमनोमोहा दृष्टलोकपरावराः । जीवन्मुक्ता भ्रमन्तीह यक्षगन्धर्वकिन्नराः
अन्ये तु काष्ठकुड्याभा मूढास् स्थावरतां गताः । अपरिक्षीणमोहास् ते किं तेषां प्रविचार्यते
लोके प्रबुध्यमानानां भूतानाम् आत्मसिद्धये । विहरन्तीह शास्त्राणि कल्पितान्य् उचितात्मभिः
सम्प्रबुद्धाशया ये तु दुष्कृतानां परिक्षये । तेषां शास्त्रविचारेषु निर्मला धीः प्रवर्तते
विलीयते मनोमोहस् सच्छास्त्रप्रविचारणात् । नभोविहरणाद् भानोश् शार्वरं तिमिरं यथा
अक्षीयमाणं हि मनो मोहायैव न सिद्धये । नीहार इव सञ्छाद्य वेताल इव वल्गति
सर्वेषाम् एव भूतानां सुखदुःखार्थभाजनम् । शरीरं मन एवेह न तु मांसमयं मुने
यो ऽयं मांसास्थिसङ्घातो दृश्यते चाधिभौतिकः । मनोविकल्पितं विद्धि न देहः पारमार्थिकः
मनश्शरीरेण तव पुत्रो यत् कृतवान् मुने । तद् एव प्राप्तवान् आशु वयं नात्रापराधिनः
स्वया वासनया लोको यद् यत् कर्म करोति यः । स तथैव तद् आप्नोति नेतरस्यात्र कर्तृता
नानुसंहितम् अन्तर् यन् मनोवासनया स्वया । को नाम भुवने सो ऽस्ति तत् कर्तुं यस्य शक्तता
ये स्वर्गनरकाभोगा यास् स्वर्गनरकैषणाः । स्वमनोमननेन्दोस् स निष्ष्यन्दो मान्द्यदुःखदः
बहुनात्र किम् उक्तेन शब्दसन्दर्भकारिणा । उत्तिष्ठ भगवन् यामो यत्र ते तनयस् स्थितः
सर्वं चित्तशरीरेण भुक्त्वा शुक्रः क्षणाद् इह । अद्येन्दुरश्मिसङ्घट्टात् समङ्गातापसस् स्थितः
तत्प्राणपवनश् चित्त्वयुक्त इन्द्वंशुगः फलम् । अवश्यायतया भूत्वा वीर्यत्वेन नरस् स्थितः
इत्य् उक्त्वा भगवान् कालो हसन्न् इव जगद्गतीः । हस्ताद् धस्तेन जग्राह भृगुम् इन्दुम् इवांशुमान्
अहो नु चित्रा नियतेर् व्यवस्थेति वदञ् शनैः । भगवान् भृगुर् उत्तस्थाव् उदयाद्रेर् यथा रविः
तेजोनिधी सुसमसङ्गसमुत्थितौ तौ भातस् तदा वरवने सतमालजाले । तुल्योदयाव् इव नभस्य् अमले विहर्तुम् अभ्युद्यताव् अजलदौ सकलेन्दुसूर्यौ
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम