काश्चिच् चलाननमृगगृध्रवञ्जुलकादयः । स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्व् इव
सुदीर्घजीविताः काश्चित् काश्चिद् अत्यल्पजीविताः । स्वतुच्छभावनात् तुच्छात् काश्चित् तुच्छशरीरिकाः
संसारस्वप्नसंरम्भे काश्चित् स्थैर्येण भाविताः । स्वविकल्पहताः काश्चिच् छङ्कन्ते सुस्थिरं जगत्
अल्पाल्पभावनाः काश्चिद् दैन्यदोषवशीकृताः । कृशो ऽतिदुःखी मूढो ऽहम् इति दुःखैर् दृढीकृताः
काश्चित् स्थावरतां याताः काश्चिद् देवत्वम् आगताः । काश्चित् पुरुषतां प्राप्ताः काश्चिद् दानवतां गताः
काश्चित् स्थिता जगति कल्पशतान्य् अनल्पाः काश्चिद् व्रजन्ति परमं पुरुषं सुशुद्धाः । ब्रह्मार्णवात् समुदिता लहरीविलोलाश् चित्संविदो हि मननापरनामवत्यः
मिथ्याभावनया ब्रह्मन् स्वविकल्पकलङ्किताः । न ब्रह्म वयम् इत्य् अन्तर्निश्चयेन ह्य् अधोगताः
ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि । भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु
या एतास् संविदो ब्राह्म्यो मुने नैककलङ्किताः । एतत् तत् कर्मणां बीजम् अथ कर्मैव विद्धि वा
सङ्कल्परूपयैवान्तर् मुने कलनयैतया । कर्मजालकरञ्जानां बीजमुष्ट्या करालया
इमा जगति विस्तीर्णे शरीरोपलपङ्क्तयः । तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च
आब्रह्मस्तम्बपर्यन्तं स्पन्दनैः पवनो यथा । उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च
ता एताः काश्चिद् अत्यच्छा यथा हरिहरादयः । काश्चिद् अल्पविमोहस्था यथोरगनरामराः
काश्चिद् अत्यन्तमोहस्था यथा तरुतृणादयः । काश्चिद् अज्ञानसम्मूढाः क्रिमिकीटत्वम् आगताः
काश्चित् तृणवद् उह्यन्ते दूरे ब्रह्ममहोदधेः । अप्राप्तभूमिका एता यथोरगनरादयः
तटमात्रं समालोक्य काश्चित् खेदम् उपागताः । जाताजाता निखन्यन्ते कृतान्तजरदाखुना
काश्चिद् अन्तरम् आसाद्य ब्रह्मतत्त्वमहाम्बुधेः । गतास् तत्ताम् अशोकाय हरिब्रह्महरादिकाः
अल्पमोहान्विताः काश्चित् तम् एव ब्रह्मवारिधिम् । अदृष्टरागरोगौघम् अवलम्ब्य व्यवस्थिताः
काश्चिद् भोक्तव्यजन्मौघा भुक्तजन्मौघकोटयः । वन्ध्याः प्रकाशतामस्यस् संस्थिता भूतजातयः
काश्चिद् ऊर्ध्वाद् अधो यान्ति तथाधस्तान् महत् पदम् । ऊर्ध्वाद् ऊर्ध्वतरं काश्चिद् अधस्तात् काश्चिद् अप्य् अधः
बहुसुखदुःखकटङ्कटा क्रियेयं परमपदास्मरणात् समागतेह । परमपदावगमात् प्रयाति नाशं विहगपतिस्मरणाद् विषव्यथेव
मध्याज् जितमनोमोहा दृष्टलोकपरावराः । जीवन्मुक्ता भ्रमन्तीह यक्षगन्धर्वकिन्नराः
अन्ये तु काष्ठकुड्याभा मूढास् स्थावरतां गताः । अपरिक्षीणमोहास् ते किं तेषां प्रविचार्यते
लोके प्रबुध्यमानानां भूतानाम् आत्मसिद्धये । विहरन्तीह शास्त्राणि कल्पितान्य् उचितात्मभिः
सम्प्रबुद्धाशया ये तु दुष्कृतानां परिक्षये । तेषां शास्त्रविचारेषु निर्मला धीः प्रवर्तते
विलीयते मनोमोहस् सच्छास्त्रप्रविचारणात् । नभोविहरणाद् भानोश् शार्वरं तिमिरं यथा
अक्षीयमाणं हि मनो मोहायैव न सिद्धये । नीहार इव सञ्छाद्य वेताल इव वल्गति
सर्वेषाम् एव भूतानां सुखदुःखार्थभाजनम् । शरीरं मन एवेह न तु मांसमयं मुने
यो ऽयं मांसास्थिसङ्घातो दृश्यते चाधिभौतिकः । मनोविकल्पितं विद्धि न देहः पारमार्थिकः
मनश्शरीरेण तव पुत्रो यत् कृतवान् मुने । तद् एव प्राप्तवान् आशु वयं नात्रापराधिनः