परस्परपरामर्शान् नानाताम् उपयान्त्य् अलम् । एकरूपाम्बुसामान्यमया एव निरामयाः
तथैवास्मिन् प्रवितते सिते शुद्धे निरामये । ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि
सर्वशक्ताव् अनाद्यन्ते पृथग्वद् अपृथक्कृताः । संस्थिताश् शक्तयश् चित्रा विचित्राचारचञ्चलाः
नानाशक्ति हि नानात्वम् एति स्ववपुषि स्थितम् । बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम्
नानारूपकरूपत्वाद् वैरूप्यशतकारिणी । नियतिर् नियताकारा पदार्थम् अधितिष्ठति
जडा जाड्यम् उपादत्ते चित्त्वम् आयाति चिन्मयी । वासनारूपिणी शक्तिस् स्वस्वरूपस्थितात्मनः
ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते । नानारूपैः परिस्पन्दैः परिपूर्ण इवार्णवः
नानातां स्वयम् आदत्ते नानाकारविहारतः । आत्मैवात्मन्य् आत्मनैव समुद्राम्भ इवाम्भसि
व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा । व्यतिरिक्ता न सर्वेशात् समग्राः कलनास् तथा
स्तम्भपुष्पलतापत्त्रफलकोरकयुक्तयः । यथैकस्मिं स्थिता बीजे तथा ब्रह्मणि शक्तयः
नानाकर्तृतया नानाशक्तिता पुरुषे यथा । तथैवात्मनि सर्वज्ञे सर्वदा सर्वशक्तिता
विचित्रवर्णता यद्वद् दृश्यते कठिनातपे । विचित्रशक्तिता तद्वद् देवेशे सदसन्मयी
विचित्ररूपोदेतीयम् अविचित्रात् स्थितिश् शिवात् । एकवर्णात् पयोवाहाच् छक्रचापलता यथा
अजडाज् जडतोदेति जाड्यभावनहेतुका । ऊर्णनाभाद् यथा तन्तुर् यथा पुंसस् सुषुप्तता
अचित्तश् चैतसीं शक्तिं स्वबन्धायेच्छया शिवः । तनोति तान्तवं कोशं कोशकारक्रिमिर् यथा
स्वेच्छयात्मात्मनो ब्रह्मन् भावयित्वा स्वकं वपुः । संसारान् मोक्षम् आयाति स्वालानाद् इव वारणः
यद् एव भावयत्य् आत्मा सततं भावितस् स्वयम् । तयैवापूर्यते शक्त्या शीघ्रम् एव महान् अपि
भाविता शक्तिर् आत्मानम् आत्मतां नयति क्षणात् । अनन्तम् अपि खं प्रावृण्मिहिका महती यथा
या शक्तिर् उदिता शीघ्रं याति तन्मयताम् अजः । याम् एव तु स्थितिं यातस् तन्मयो भवति द्रुमः
न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः । बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः
नास्य बन्धो न मोक्सो ऽस्ति तन्मयश् चैव लक्ष्यते । ग्रस्तं नित्यम् असत्येन मायामयम् अहो जगत्
यदैव चित्तं कलितम् अकलेन किलात्मना । कोशकीटवद् आत्मायम् अनेनावलितस् तदा
अनन्यरूपास् त्व् अन्यत्वविकल्पितशरीरकाः । मनश्शक्तय एतस्माद् इमा निर्यान्ति कोटिशः
तत्स्थास् तज्जाः पृथग्रूपास् समुद्राद् इव वीचयः । तत्स्थास् तज्जाः पृथक्स्थाश् च चन्द्राद् इव मरीचयः
अस्मिन् स्पन्दमये स्फारे परमात्ममहाम्बुधौ । चिज्जले वितताभोगे चिन्मात्ररसशालिनि
काश्चित् स्थिता हरिब्रह्मरुद्रचिद्वलनाधिकाः । लहर्यः प्रस्फुरन्त्य् एतास् स्वभावोद्भावितात्मिकाः
काश्चिद् यममहेन्द्रार्कवह्निवैश्रवणादिकाः । घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश् चपलैषणाः
काश्चित् किन्नरगन्धर्वविद्याधरसुरादिकाः । उत्पतन्ति पतन्त्य् उग्रा लहर्यः परिवल्गिताः
काश्चित् किञ्चित्स्थिताकारा यथा कमलजादिकाः । काश्चिद् उत्पन्नविध्वस्ता यथा सुरनरादिकाः
क्रिमिकीटपतङ्गादिगोनासाजगरादिकाः । काश्चित् तस्मिन् महाम्भोधौ स्फुरन्त्य् एतेषु बिन्दुवत्