तथा च सम्भ्रमे स्वप्नमिथ्याज्ञानादिभास्वराः । गन्धर्वनगराकारा दृष्टा मनसि शक्तयः
स्थूलदृष्टिदृशं त्व् एताम् अवलम्ब्य महामुने । पुंसो मनश् शरीरं च कायौ द्वाव् इति कथ्यते
मनोमनननिर्माणमात्रम् एतज् जगत्त्रयम् । न सन् नासद् इव स्फारम् उदितं नेतरन् मुने
चित्तदेहाङ्गलतया भेदवासनयेद्धया । द्विचन्द्रत्वम् इवाज्ञानान् नानातेयं समुत्थिता
भेदवासनया बह्व्या पदार्थनिचयं मनः । भिन्नं पश्यति सर्वत्र घटावटपटादिकम्
कृशो ऽतिदुःखी मूढो ऽहम् एताश् चान्याश् च भावनाः । भावयत् स्वविकल्पोत्था याति संसारतां मनः
मननं कृत्रिमं रूपं ममैतन् न पताम्य् अहम् । इति तत्त्यागतश् शान्तं चेतो ब्रह्म सनातनम्
यथा प्रवितते ऽम्बोधौ तते ऽनेकतरङ्गिणि । सोम्यस्पन्दमयानेककल्लोलावलिशालिनि
वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले । अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे
त्र्यश्रस् तरङ्गस् स्वं रूपं भावयन् स स्वभावतः । त्र्यश्रो ऽस्मीति विकल्पेन करोति स्वेन कल्पनाम्
भ्रश्यंश् चैव परिभ्रष्टरूपो ऽस्मीति तलातलम् । भावयन् भूतलं याति तादृग्भावनया तया
उत्थितं च बलाद् ऊर्ध्वम् उत्थितो ऽस्मीति भावितः । तैस् तैर् विकल्पैस् तद्भावं विकल्पयति साभिधम्
ससूर्यप्रतिबिम्बस् तु प्रकाशो ऽस्मीति भावितः । सरजःपुञ्जपातस् तु मलिनो ऽस्मीति भावितः
सरत्नरश्मिजालस् तु शोभते दीप्तया श्रिया । तुषारभरविद्धस् तु शीतलो ऽस्मीति विन्दति
सतटाचलदावाग्निप्रतिबिम्बोज्ज्वलद्वपुः । बिभेति वत दग्धो ऽस्मीत्य् आत्तमीनश् च कम्पते
प्रतिबिम्बितवेलाद्रितटपक्षिवनद्रुमः । महान् आरम्भसंरम्भसंयुतो ऽस्मीति राजते
विमलोल्लसनोत्पन्नध्वस्तलोलशरीरकः । खण्डशः परियातो ऽस्मीत्य् आत्ताक्रन्द इवारवी
न चोर्मयस् ते जलधेर् व्यतिरिक्ताः पयोरसात् । न चैकं रूपम् एतेषां किञ्चित् सन्न् अप्य् असन्मयम्
न च ते न्यूनदैर्घ्याद्या गुणास् तेषु च तेषु ते । नोर्मयस् संस्थिता अब्धौ न च तत्र न संस्थिताः
केवलं स्वस्वभावस्थसङ्कल्पविकलीकृताः । नष्टानष्टाः पुनर् जाता जाताजाताः पुनः क्षताः
परस्परपरामर्शान् नानाताम् उपयान्त्य् अलम् । एकरूपाम्बुसामान्यमया एव निरामयाः
तथैवास्मिन् प्रवितते सिते शुद्धे निरामये । ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि
सर्वशक्ताव् अनाद्यन्ते पृथग्वद् अपृथक्कृताः । संस्थिताश् शक्तयश् चित्रा विचित्राचारचञ्चलाः
नानाशक्ति हि नानात्वम् एति स्ववपुषि स्थितम् । बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम्
नानारूपकरूपत्वाद् वैरूप्यशतकारिणी । नियतिर् नियताकारा पदार्थम् अधितिष्ठति
जडा जाड्यम् उपादत्ते चित्त्वम् आयाति चिन्मयी । वासनारूपिणी शक्तिस् स्वस्वरूपस्थितात्मनः
ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते । नानारूपैः परिस्पन्दैः परिपूर्ण इवार्णवः
नानातां स्वयम् आदत्ते नानाकारविहारतः । आत्मैवात्मन्य् आत्मनैव समुद्राम्भ इवाम्भसि
व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा । व्यतिरिक्ता न सर्वेशात् समग्राः कलनास् तथा
स्तम्भपुष्पलतापत्त्रफलकोरकयुक्तयः । यथैकस्मिं स्थिता बीजे तथा ब्रह्मणि शक्तयः