अक्षीणजीवितं पुत्रं कालो मे नीतवान् इति । नियतेर् वशतो देव त्वच्छापेच्छा ममोदिता
न तु विज्ञातसंसारगतयो वयम् आपदम् । सम्पदं वापि गच्छामो हर्षामर्षवशं किल
अयुक्तकारिणि क्रोधः प्रसादो युक्तकारिणि । कर्तव्य इति रूढेयं सांसारी भगवन् स्थितिः
इदं कार्यम् इदं नेति यावज्जीवं जगत्क्रमः । यावद् अग्निस् स्थिता तावद् औष्ण्यदाहादिदृष्टयः
इदं कार्यम् इदं नेति हेया यस्य जगत्स्थितिः । तस्यैतत्सम्परित्यागो हेय एव जगद्गुरो
केवलं तानयीं चिन्ताम् अनालोक्य यदा वयम् । भगवन् भवते क्षुब्धा यातास् स्मस् तेन वाच्यताम्
त्वयेदानीम् अहं देव स्मारितस् तनयेहितम् । समङ्गायास् तटे तेन दृष्टो ऽयं तनयो मया
मन्ये जगति भूतानां द्वे शरीरे न सर्वग । मन एव शरीरं हि येनेदं भाव्यते जगत्
सम्यग् उक्तं त्वया ब्रह्मञ् शरीरं मन एव नः । करोति देहं सङ्कल्प्य कुम्भकारो घटं यथा
करोत्य् अकृतम् आकारं कृतं नाशयति क्षणात् । सङ्कल्पेन मनो मोहाद् बालो वेतालकं यथा
तथा च सम्भ्रमे स्वप्नमिथ्याज्ञानादिभास्वराः । गन्धर्वनगराकारा दृष्टा मनसि शक्तयः
स्थूलदृष्टिदृशं त्व् एताम् अवलम्ब्य महामुने । पुंसो मनश् शरीरं च कायौ द्वाव् इति कथ्यते
मनोमनननिर्माणमात्रम् एतज् जगत्त्रयम् । न सन् नासद् इव स्फारम् उदितं नेतरन् मुने
चित्तदेहाङ्गलतया भेदवासनयेद्धया । द्विचन्द्रत्वम् इवाज्ञानान् नानातेयं समुत्थिता
भेदवासनया बह्व्या पदार्थनिचयं मनः । भिन्नं पश्यति सर्वत्र घटावटपटादिकम्
कृशो ऽतिदुःखी मूढो ऽहम् एताश् चान्याश् च भावनाः । भावयत् स्वविकल्पोत्था याति संसारतां मनः
मननं कृत्रिमं रूपं ममैतन् न पताम्य् अहम् । इति तत्त्यागतश् शान्तं चेतो ब्रह्म सनातनम्
यथा प्रवितते ऽम्बोधौ तते ऽनेकतरङ्गिणि । सोम्यस्पन्दमयानेककल्लोलावलिशालिनि
वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले । अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे
त्र्यश्रस् तरङ्गस् स्वं रूपं भावयन् स स्वभावतः । त्र्यश्रो ऽस्मीति विकल्पेन करोति स्वेन कल्पनाम्
भ्रश्यंश् चैव परिभ्रष्टरूपो ऽस्मीति तलातलम् । भावयन् भूतलं याति तादृग्भावनया तया
उत्थितं च बलाद् ऊर्ध्वम् उत्थितो ऽस्मीति भावितः । तैस् तैर् विकल्पैस् तद्भावं विकल्पयति साभिधम्
ससूर्यप्रतिबिम्बस् तु प्रकाशो ऽस्मीति भावितः । सरजःपुञ्जपातस् तु मलिनो ऽस्मीति भावितः
सरत्नरश्मिजालस् तु शोभते दीप्तया श्रिया । तुषारभरविद्धस् तु शीतलो ऽस्मीति विन्दति
सतटाचलदावाग्निप्रतिबिम्बोज्ज्वलद्वपुः । बिभेति वत दग्धो ऽस्मीत्य् आत्तमीनश् च कम्पते
प्रतिबिम्बितवेलाद्रितटपक्षिवनद्रुमः । महान् आरम्भसंरम्भसंयुतो ऽस्मीति राजते
विमलोल्लसनोत्पन्नध्वस्तलोलशरीरकः । खण्डशः परियातो ऽस्मीत्य् आत्ताक्रन्द इवारवी
न चोर्मयस् ते जलधेर् व्यतिरिक्ताः पयोरसात् । न चैकं रूपम् एतेषां किञ्चित् सन्न् अप्य् असन्मयम्
न च ते न्यूनदैर्घ्याद्या गुणास् तेषु च तेषु ते । नोर्मयस् संस्थिता अब्धौ न च तत्र न संस्थिताः
केवलं स्वस्वभावस्थसङ्कल्पविकलीकृताः । नष्टानष्टाः पुनर् जाता जाताजाताः पुनः क्षताः