जटावान् अक्षवलयी जितसर्वेन्द्रियभ्रमः । तत्र वर्षशतान्य् अष्टौ संस्थितस् तपसि स्थिरे
यदीच्छसि मुने द्रष्टुं तं स्वपुत्रमनोभ्रमम् । तत् समुन्मील्य विज्ञाननेत्रम् आशु विलोकय
इत्य् उक्ते जगदीशेन कालेन समदृष्टिना । मुनिस् सञ्चिन्तयाम् आस ज्ञानाक्ष्णा तनयेहितम्
ददर्श च मुहूर्तेन प्रतिभासवशाद् असौ । पुत्रोदन्तम् अशेषेण बुद्धिदर्पणबिम्बितम्
पुनर् मन्दरसानुस्थां काले कालाग्रसंस्थिताम् । समङ्गायास् तटाद् एत्य विवेश स्वतनुं भृगुः
विस्मयस्मेरया दृष्ट्या कालम् आलोक्य कान्तया । वीतरागम् उवाचेदं वीतरागो मुनिर् वचः
भगवन् भूतभव्येश बाला वयम् अनाबिला । त्वादृशाम् एव धीर् देव त्रिकालामलदर्शिनी
नानाकारं विकाराढ्या सत्येवासत्यरूपिणी । विभ्रमं जनयत्य् एषा धीरस्यापि जगद्गतिः
त्वम् एव देव जानासि त्वदभ्यन्तरवर्ति यत् । रूपम् अस्या मनोवृत्तेर् इन्द्रजालविधायकम्
मत्पुत्रस्यास्य भगवन् मृत्युः किल न विद्यते । तेनेमं मृतम् आलोक्य जातस् सम्भ्रमवान् अहम्
अक्षीणजीवितं पुत्रं कालो मे नीतवान् इति । नियतेर् वशतो देव त्वच्छापेच्छा ममोदिता
न तु विज्ञातसंसारगतयो वयम् आपदम् । सम्पदं वापि गच्छामो हर्षामर्षवशं किल
अयुक्तकारिणि क्रोधः प्रसादो युक्तकारिणि । कर्तव्य इति रूढेयं सांसारी भगवन् स्थितिः
इदं कार्यम् इदं नेति यावज्जीवं जगत्क्रमः । यावद् अग्निस् स्थिता तावद् औष्ण्यदाहादिदृष्टयः
इदं कार्यम् इदं नेति हेया यस्य जगत्स्थितिः । तस्यैतत्सम्परित्यागो हेय एव जगद्गुरो
केवलं तानयीं चिन्ताम् अनालोक्य यदा वयम् । भगवन् भवते क्षुब्धा यातास् स्मस् तेन वाच्यताम्
त्वयेदानीम् अहं देव स्मारितस् तनयेहितम् । समङ्गायास् तटे तेन दृष्टो ऽयं तनयो मया
मन्ये जगति भूतानां द्वे शरीरे न सर्वग । मन एव शरीरं हि येनेदं भाव्यते जगत्
सम्यग् उक्तं त्वया ब्रह्मञ् शरीरं मन एव नः । करोति देहं सङ्कल्प्य कुम्भकारो घटं यथा
करोत्य् अकृतम् आकारं कृतं नाशयति क्षणात् । सङ्कल्पेन मनो मोहाद् बालो वेतालकं यथा
तथा च सम्भ्रमे स्वप्नमिथ्याज्ञानादिभास्वराः । गन्धर्वनगराकारा दृष्टा मनसि शक्तयः
स्थूलदृष्टिदृशं त्व् एताम् अवलम्ब्य महामुने । पुंसो मनश् शरीरं च कायौ द्वाव् इति कथ्यते
मनोमनननिर्माणमात्रम् एतज् जगत्त्रयम् । न सन् नासद् इव स्फारम् उदितं नेतरन् मुने
चित्तदेहाङ्गलतया भेदवासनयेद्धया । द्विचन्द्रत्वम् इवाज्ञानान् नानातेयं समुत्थिता
भेदवासनया बह्व्या पदार्थनिचयं मनः । भिन्नं पश्यति सर्वत्र घटावटपटादिकम्
कृशो ऽतिदुःखी मूढो ऽहम् एताश् चान्याश् च भावनाः । भावयत् स्वविकल्पोत्था याति संसारतां मनः
मननं कृत्रिमं रूपं ममैतन् न पताम्य् अहम् । इति तत्त्यागतश् शान्तं चेतो ब्रह्म सनातनम्
यथा प्रवितते ऽम्बोधौ तते ऽनेकतरङ्गिणि । सोम्यस्पन्दमयानेककल्लोलावलिशालिनि
वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले । अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे
त्र्यश्रस् तरङ्गस् स्वं रूपं भावयन् स स्वभावतः । त्र्यश्रो ऽस्मीति विकल्पेन करोति स्वेन कल्पनाम्