चतुरेण यथा साधो रथस् सारथिनोह्यते । कुर्वता किञ्चन स्वेहां देहो ऽयं मनसा तथा
असत् सङ्कल्प्य क्रियते सच् छरीरं विनाश्यते । क्षणेन मनसा पङ्कपुरुषश् शिशुना यथा
चित्तम् एवेह पुरुषस् तत्कृतं कृतम् उच्यते । तद् बद्धं कलनाहेतोः कलनास्तं विमुच्यते
अयं देह इदं नेत्रम् इदम् अङ्गम् इदं शिरः । इदं स्फारविकारं तन् मन एवाभिधीयते
मनो हि जीवज् जीवाख्यं निश्चायकतया तु धीः । अहङ्कारो ऽभिमानित्वान् नानात्वं त्व् इदम् एति हि
देहवासनया चेतस् त्व् अन्यानि स्वानि चेद्धया । पार्थिवानि शरीराणि सन्तीव परिपश्यति
आलोकयति चेत् सत्यं तद् असत्यमयीं मनः । शरीरभावनां त्यक्त्वा परमां याति निर्वृतिम्
तन् मनस् तव पुत्रस्य समाधौ त्वयि संस्थिते । स्वमनोरथमार्गेण दूराद् दूरतरं गतम्
इदम् औशनसं त्यक्त्वा देहं मन्दरकन्दरे । प्रयातं वैबुधं सद्म नीडोड्डीनः खगो यथा
तत्र मन्दारकुञ्जेषु पारिजातगृहेषु च । नन्दनोद्यानषण्डेषु लोकपालपुरेषु च
मुने चतुर्युगान्य् अष्टौ विश्वाचीं देवसुन्दरीम् । असेवत महातेजाष् षट्पदः पद्मिनीम् इव
तीव्रसंवेगसम्पन्नस् स्वसङ्कल्पोपकल्पिते । अथ पुण्यक्षये जाते नीहार इव शार्वरे
प्रम्लानकुसुमोत्तंसस् स्विन्नाङ्गावलयालसः । स पपात तया साकं कालपक्वं फलं यथा
वैबुधं तत् परित्यज्य नभस्य् एव शरीरकम् । भूताकाशम् अथासाद्य वसुधायाम् अजायत
आसीद् द्विजो दशार्णेषु कोसलेषु महीपतिः । धीवरो ऽङ्गमहाटव्यां हंसस् त्रिपथगातटे
सूर्यवंशी नृपः पौण्ड्रे सौरस् साल्वेषु दैशिकः । कल्पं विद्याधरश् श्रीमान् धीमान् अथ मुनेस् सुतः
मद्रेष्व् अथ महीपालस् ततस् तापसबालकः । वासुदेव इति ख्यातस् समङ्गायास् तटे स्थितः
अन्यास्व् अपि विचित्रासु वासनावशतस् स्वयम् । विषमास्व् एष पुत्रस् ते चचारानन्तयोनिषु
अभूद् विन्ध्यवने गोपः किरतः केकयेषु च । सौवीरेषु च सामन्तस् त्रैगर्तश् चैव दैशिकः
वंशगुल्मः किरातेषु हरिणश् चीरजङ्गले । सरीसृपस् तालतले तमाले वनकुक्कुटः
अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः । प्रजजाप पुरा विद्यां विद्याधरपदप्रदाम्
तेनासौ भगवन् ब्रह्मन् व्योम्नि विद्याधरो महान् । हारकुण्डलकेयूरी लीलानिचयलासकः
नायिकानलिनीभानुः पुष्पचाप इवापरः । विद्याधरीणां दयितो गन्धर्वपुरभूषणम्
स कल्पावधिम् आसाद्य द्वादशादित्यधामनि । जगाम भस्मशेषत्वं शलभः पावके यथा
जगन्निर्माणरहिते स्फारे नभसि सा ततः । वासना तस्य बभ्राम निर्नीडा विहगी यथा
अथ कालेन सञ्जाते विचित्रारम्भकारिणि । संसाराडम्बरारम्भे ब्राह्मी रात्रिविपर्यये
सा मनोवासना तस्य वातव्यावलिता सती । कृते ब्राह्मणताम् एत्य जाताद्य वसुधातले
वासुदेवाभिधानो ऽसौ मुने विप्रकुमारकः । जातो मतिमतां मध्ये समधीताखिलश्रुतिः
कल्पं विद्याधरो भूत्वा नद्या अद्य महामुने । तपश् चरति ते पुत्रस् समङ्गायास् तटे स्थितः
विविधविषमवासनानुवृत्त्या खदिरकरञ्जकरालकोटरासु । जगति जरढयोनिषु प्रयातो गहनतरासु च काननस्थलीषु