अचिन्तयत एवास्य भविष्यत्ताबलं ततः । कालं प्रति बभूवाशु कोपः परमदारुणः
अकाल एव मत्पुत्रो नीतः किम् इति कोपितः । कालाय शापम् उत्स्रष्टुं भगवान् उपचक्रमे
अथाकलितरूपो ऽसौ कालः कवलितप्रजः । आधिभौतिकम् आस्थाय वपुर् मुनिम् उपाययौ
खड्गपाशधरश् श्रीमान् कुण्डली कवचान्वितः । षड्भुजष् षण्मुखो बह्व्या वृतः किङ्करसेनया
यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता । फुल्लकिंशुकवृक्षस्य बभाराद्रेश् श्रियं नभः
यत्करस्थत्रिशूलाग्रनिष्ठ्यूतैर् अग्निमण्डलैः । विरेजुर् उदितैर् आशाः कानकैर् इव कुण्डलैः
यत्पाशश्वसनायस्तशिखरा मेदिनीभृतः । दोलाम् इव समारूढाश् चेलुः पेतुश् च घूर्णिताः
यत्खड्गमण्डलोद्द्योतश्यामं बिम्बं विवस्वतः । कल्पदग्धजगद्धूमपर्याकुलम् इवाबभौ
स उपेत्य महाबाहुः कुपितं तं महामुनिम् । कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वम् उवाच ह
विज्ञातलोकस्थितयो मुने दृष्टपरावराः । हेतुनापि न मुह्यन्ति किम् उ हेतुम् विनोत्तमाः
त्वम् अनन्ततपा विप्रो वयं नियतिपालकाः । तेन सम्पूज्यसे पूज्य साधो नेतरयेच्छया
मा तपः क्षपय क्षुब्धैः कल्पकालमहानलैः । यो न दग्धो ऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि
संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः । भुक्तानि विष्णुवृन्दानि केन शप्ता वयं मुने
भोक्तारो हि वयं ब्रह्मन् भोजनं युष्मदादयः । स्वयं नियतिर् एषा हि नावयोर् एतद् ईहितम्
स्वयम् ऊर्ध्वं प्रयात्य् अग्निस् स्वयं यान्ति पयांस्य् अधः । भोक्तारं भोजनं याति सृष्टिश् चाप्य् अन्तकं स्वयम्
इदम् इत्थं मुने रूपम् अस्येह परमात्मनः । स्वात्मनि स्वयम् एवात्मा स्वत एव विजृम्भते
नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया । बहवश् चेह कर्तारो दृष्ट्यानष्टकलङ्कया
कर्तृताकर्तृते ब्रह्मन् केवलं परिकल्पिते । असम्यग्दर्शनेनैव न सम्यग्दर्शनेन वः
पुष्पाणि तरुषण्डेषु भूतानि भुवनेषु च । स्वयम् आयान्ति यान्तीह कल्प्यते हेतुता विधेः
अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते । न सत्ये नानृते यद्वत् तद्वत् कालस्य सृष्टिषु
मनो मिथ्याभ्रमाल् लोके कर्तृताकर्तृतामयीम् । करोति कलनां रज्ज्वां भ्रान्तेक्षण इवाहिताम्
तेन मा गा मुने कोपम् आपदाम् ईदृशः क्रमः । यद् यथा तत् तथैवास्तु सत्यम् आलोकयाकुलः
न वयं प्रभुतार्थेन नाभिमानवशीकृताः । स्वतो हेवाकवशतः केवलं नियतौ स्थिताः
प्रकृतव्यवहारेहां नियतां नियतेर् वशात् । प्राज्ञस् समनुवर्तेत नाभिमानमहातमाः
कर्तव्यम् एव क्रियते केवलं कार्यकोविदैः । सौषुप्तीं वृत्तिम् आश्रित्य कयाचिद् अपि नाशया
क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता । मार्गे सर्वप्रसिद्धे हि किम् अन्ध इव मुह्यसि
त्रिकालामलदर्शित्वं धारयन्न् अपि चेतसि । अविचार्य जगद्यात्रां किं मूर्ख इव मुह्यसि
स्वकर्मफलपाकोत्थाम् अविचार्य दशां सुते । किं मूर्ख इव सर्वज्ञ मुधा मां शप्तुम् अर्हसि
देहिनाम् इह सर्वेषां शरीरं द्विविधं मुने । किं न जानासि वा देहम् एकम् अन्यन् मनोऽभिधम्
तत्र देहो जडो ऽत्यर्थं विनाशैकपरायणः । मनस् तूत्थाननियतं कदर्थात् क्षीयते न वा