समङ्गाया महानद्यास् तटम् आसाद्य तापसः । तपस् तेपे महाबुद्धिस् स राम विगतज्वरः
विविधजन्मदशाविवशाशयस् समनुसृत्य शरीरपरम्पराम् । सुखम् अतिष्ठद् असौ भृगुनन्दनो वरनदीसुतटे दृढवृक्षवत्
अथ कालेन महता पवनातपजर्जरः । कायस् तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः
मनस् तु चञ्चलाभोगं तासु तासु दशासु च । बभ्रामातिविचित्रासु वनराजिष्व् इवैणकः
भ्रान्तम् उद्भ्रान्तम् अभितश् चक्रार्पितम् इवाकुलम् । मनस् तस्य विशश्राम समङ्गासरितस् तटे
अनन्तवृत्तान्तघनां पेलवां सुदृढाम् अपि । तां संसृतिदशां शुक्रो विदेहो ऽनुभवन् स्थितः
मन्दराचलसानुस्था सा तनुस् तस्य धीमतः । तापप्रसरसंशुष्का चर्मशेषा बभूव ह
शारीररन्ध्रप्रवहद्वातशीत्काररूपया । चेष्टादुःखक्षयानन्दात् काकल्येव स्म गायति
प्राणानुस्मरणोच्छ्वासम् इव बाष्पं स्म मुञ्चति । चण्डानिलविलासेन लुलित्वा वनभूमिषु
मनोवराकम् अवटे लुठितं भवभूमिषु । हसन्तीवातिशुभ्राभ्रसितया दन्तमालया
दर्शयन्ती स्वकं शून्यं वपुर् अक्ष्णोर् अकृत्रिमम् । मुखारण्यजरत्कूपरूपया गर्तशोभया
तापोपतप्ता संसिक्ता वर्षाजलभरेण सा । पांसुना पवनोत्थेन दुष्कृतेनेव रूषिता
शुष्ककाष्ठवद् आलोला पातेषु कृतझाङ्कृता । धारानिकरपातेन विनुन्ना जलदागमे
प्रावृण्निर्झरपूरेण प्लुता गिरिनदीतटे । तारमारुतशीत्कारा वनोपल इव स्थिता
वक्रा शुष्कान्त्रतन्त्री च पूता झाङ्कारकारिणी । अरण्यलक्ष्मीवीणेव शून्यचर्ममयोदरी
रागद्वेषविहीनत्वात् तस्य पुण्याश्रमस्य तु । महातपस्त्वाच् च भृगोर् न भुक्ता मृगपक्षिभिः
यमनियमकृशीकृताङ्गयष्टेश् चरति तपस् स्म भृगूद्वहस्य चेतः । तनुर् अथ पवनापनीतरक्ता चिरम् अलुठन् महतीषु सा शिलासु
नापश्यद् अग्रे तनयं तं नयावनताननम् । सीमान्तं गुणसीमायाः पुण्यं मूर्तम् इव स्थितम्
अपश्यत् केवलं कालं कङ्कालं पुरतो महत् । देहयुक्तम् इवाभाग्यं दारिद्र्यम् इव मूर्तिमत्
तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरि । संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम्
नेत्रगर्तकसंसुप्तप्रसूनवनकीटकम् । मक्षिकापञ्जरप्रोतकोशकारक्रिमिव्रजम्
प्राक्तनीम् उपभोगेहाम् इष्टानिष्टफलप्रदाम् । धाराधौतान्तया तन्वा हसच् छुष्कास्थिमालया
शिरोघटेन शुभ्रेण सम्पन्नेनेन्दुवर्चसा । विडम्बयच् च कर्पूरप्लुतलिङ्गशिरश्श्रियम्
ऋज्वा संशुष्कसितया स्वास्थिमात्रावशेषया । ग्रीवयात्मानुसृतया दीर्घीकुर्वद् इवाकृतिम्
मृणालिकापाण्डुरया धारावधुतमांसया । नासास्थिलतया वक्त्रं कृतसीमाक्रमं दधत्
दीर्घकन्धरया नूनम् उत्तानीकृतवक्त्रया । प्रेक्षमाणम् इव प्राणान् उत्क्रान्तान् अम्बरोदरे
जङ्घोरुजानुदोर्दण्डैर् द्विगुणं दीर्घतां गतैः । प्रमिमाणम् इवाशान्तं दीर्घाध्वश्रमभीतितः
उदरेणातिनिम्नेन चर्मशेषेण शोषिणा । प्रदर्शयद् इवाज्ञस्य हृदयस्यातिशून्यताम्
प्रेक्ष्य तच् छुष्ककङ्कालम् आलानम् इव दन्तिनः । पूर्वापरपरामर्शम् अकुर्वन् भृगुर् उत्थितः
आलोकसमकालं हि प्रतिभातं ततो भृगोः । चिरम् उत्क्रान्तजीवः किं मत्पुत्रो ऽयम् इति क्षणात्