शालींस् तान् भुक्तवान् पक्वान् दशार्णेषु द्विजोत्तमः । शौक्राञ् शुक्राङ्गनागर्भान् मालवेषु च भूपतिः
अजायतोशनाः पूर्वं दशार्णेषु द्विजोत्तमात् । नृपाद् उत्तमसौभाग्यान् मालवेषु तदङ्गना
स तत्र ववृधे बालस् सा तत्र ववृधे ऽङ्गना । तौ पूर्वदम्पती जातौ स्वर्भ्रष्टाव् इव भूतले
अथ षोडशवर्षो ऽभूच् छुक्रस् सारङ्गनामभृत् । पितुर् गृहे यौवनवाञ् श्रीमान् विप्रकुमारकः
मालानामसुरस्त्री सा कुमारी राजसद्मनि । भृङ्गेक्षणा गता वृद्धिं लता वरवने यथा
राजपुत्री ततो माला पूजयाम् आस शङ्करम् । लभेयं प्राक्तनं सिद्धं पतिम् इत्य् अनिशं शुभा
अथ मालवभूपस्य यज्ञे द्विजसभागतम् । माला ददर्श सारङ्गं पित्रा सह समागतम्
तं दृष्ट्वा सानवद्याङ्गी प्राक्तनस्नेहभाविता । दृष्टचन्द्रेन्दुमणिवत् स्नेहस्विन्नाङ्गिका बभौ
ततो यज्ञसभामध्ये दाशार्णद्विजदारकम् । भर्तृत्वे वरयाम् आस सा माला मालवात्मजा
क्रमात् कृतविवाहाय तस्मै वार्धकजर्जरः । मालवेशो ऽखिलं राज्यं प्रतिपाद्य वनं ययौ
स सारङ्गस् तया सार्धं तस्मिन् मालवमण्डले । चकारातिसुखी राज्यं शक्रवच् छरदां शतम्
अथ कालेन महता चञ्चलत्वाच् च चेतसः । अप्रियत्वं मिथो यातौ दम्पती तौ विधेर् वशात्
सारङ्गस् तु जराजीर्णः पातसज्जकलेवरः । दध्रे श्वसनशैथिल्याज् जीर्णपर्णसवर्णताम्
जायाजनविरागेण वार्धकातिशयेन च । मरणं मन्दमन्देहो निरीहो ऽभिननन्द सः
अथ नीरसराज्यस्य दुःखातिशयशंसिनः । अरण्य इव वेतालो मोहो ऽतिघनतां गतः
मोहान्धकूपपतितं भोगासङ्गाद् अनारतम् । अविवेकिनम् अज्ञानम् असज्जनपरायणम्
जहारैनं ततो मृत्युस् तृष्णाकवलिताशयम् । पतङ्गम् इव मण्डूकः कृताक्रन्दम् अकिञ्चनम्
ततः कर्मफलं भुक्त्वा स्वं परत्र शुभाशुभम् । अङ्गेषु धीवरो जातस् स दुर्भाववशात् तदा
तत्र धीवरकर्माणि कुर्वन् स शरदां शतम् । दुःखजर्जरचेतस्त्वाद् वैराग्यं समुपाययौ
दुःखं संसार इत्य् एवं चिन्तयन् भास्करं ततः । सम्पतंस् तेन सञ्जातस् सूर्यवंशे महानृपः
शुभभाववशात् सो ऽथ किञ्चिज् ज्ञानम् अवाप्तवान् । जज्ञे नृपतनुं त्यक्त्वा गुरुस् सर्वोपदेशकः
मन्त्रसाधितसिद्धिर् हि सो ऽथ विद्याधरो ऽभवत् । कल्पम् एकं तु बुभुजे ततो वैद्याधरीं पुरीम्
कल्पावसानसमयं नीत्वा पवनरूपया । तन्वा सृष्टौ प्रवृत्तायां भूयो जातो मुनेस् सुतः
ततो मुनीनां सम्पर्कात् तपस्य् उग्रे व्यवस्थितः । अवसन् मेरुगहने मन्वन्तरम् अनिन्दितः
तत्र तस्य समुत्पन्नो मृग्याः पुत्रो नराकृतिः । तत्स्नेहेन परं मोहं पुनर् अभ्याययौ क्षणात्
पुत्रस्यास्य धनं मे ऽस्तु गुणाश् चायुश् च शाश्वतम् । इत्य् अनारतचिन्ताभिर् जहौ सत्याम् अवस्थितिम्
धर्मचिन्तापरिभ्रंशात् पुत्रार्थं भोगचिन्तनात् । क्षीणायुषं तम् अहरन् मृत्युस् सर्प इवानिलम्
भोगैकचिन्तया सार्धं स समुत्क्रान्तचेतनः । प्राप्य मद्रेशपुत्रत्वम् आसीन् मद्रमहीपतिः
मद्रदेशे चिरं कृत्वा राज्यम् उच्छिन्नशात्रवः । जराम् अभ्याजगामात्र हिमाशनिर् इवाम्बुजम्
मद्रराजतनुं तां तु तपोवासनया सह । तत्याज तेन जातो ऽसौ तपस्वी तापसात्मजः