लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु । क्रीडितं कृतहासेन राम तेन तया सह
मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः । अवसत् स समाष् षष्टिं कल्पितामरमन्दिरः
क्षीरार्णवतटेष्व् अस्य वनितासहचारिणः । क्षीणं कृतयुगाद् अर्धं श्वेतद्वीपजनैस् सह
गन्धर्वनगरोद्यानलीलाविरचनैर् असौ । सृष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः
अथावसद् असौ शुक्रः पुरन्दरपुरे पुनः । सुखं चतुर्युगान्य् अष्टौ हरिणेक्षणया सह
पुण्यक्षयानुसन्धानात् ततश् चावनिमण्डले । तयैव सह मानिन्या पपातापहृताकृतिः
परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः । चिन्तापरवशो ध्वस्तस् समितीवाहतो भटः
पतितस्यावनौ तस्य चिन्तया सह दीर्घया । शरीरं शतधा यातं शिलापातीव निर्झरः
संशीर्णयोर् देहकयोश् चित्ते ते वासनावृते । विचेरतुस् तयोर् व्योम्नि निर्नीडौ विहगौ यथा
तत्राविविशतुश् चान्द्रं ते चित्ते रश्मिजालकम् । प्रालेयताम् उपेत्याशु शालिताम् अथ जग्मतुः
शालींस् तान् भुक्तवान् पक्वान् दशार्णेषु द्विजोत्तमः । शौक्राञ् शुक्राङ्गनागर्भान् मालवेषु च भूपतिः
अजायतोशनाः पूर्वं दशार्णेषु द्विजोत्तमात् । नृपाद् उत्तमसौभाग्यान् मालवेषु तदङ्गना
स तत्र ववृधे बालस् सा तत्र ववृधे ऽङ्गना । तौ पूर्वदम्पती जातौ स्वर्भ्रष्टाव् इव भूतले
अथ षोडशवर्षो ऽभूच् छुक्रस् सारङ्गनामभृत् । पितुर् गृहे यौवनवाञ् श्रीमान् विप्रकुमारकः
मालानामसुरस्त्री सा कुमारी राजसद्मनि । भृङ्गेक्षणा गता वृद्धिं लता वरवने यथा
राजपुत्री ततो माला पूजयाम् आस शङ्करम् । लभेयं प्राक्तनं सिद्धं पतिम् इत्य् अनिशं शुभा
अथ मालवभूपस्य यज्ञे द्विजसभागतम् । माला ददर्श सारङ्गं पित्रा सह समागतम्
तं दृष्ट्वा सानवद्याङ्गी प्राक्तनस्नेहभाविता । दृष्टचन्द्रेन्दुमणिवत् स्नेहस्विन्नाङ्गिका बभौ
ततो यज्ञसभामध्ये दाशार्णद्विजदारकम् । भर्तृत्वे वरयाम् आस सा माला मालवात्मजा
क्रमात् कृतविवाहाय तस्मै वार्धकजर्जरः । मालवेशो ऽखिलं राज्यं प्रतिपाद्य वनं ययौ
स सारङ्गस् तया सार्धं तस्मिन् मालवमण्डले । चकारातिसुखी राज्यं शक्रवच् छरदां शतम्
अथ कालेन महता चञ्चलत्वाच् च चेतसः । अप्रियत्वं मिथो यातौ दम्पती तौ विधेर् वशात्
सारङ्गस् तु जराजीर्णः पातसज्जकलेवरः । दध्रे श्वसनशैथिल्याज् जीर्णपर्णसवर्णताम्
जायाजनविरागेण वार्धकातिशयेन च । मरणं मन्दमन्देहो निरीहो ऽभिननन्द सः
अथ नीरसराज्यस्य दुःखातिशयशंसिनः । अरण्य इव वेतालो मोहो ऽतिघनतां गतः
मोहान्धकूपपतितं भोगासङ्गाद् अनारतम् । अविवेकिनम् अज्ञानम् असज्जनपरायणम्
जहारैनं ततो मृत्युस् तृष्णाकवलिताशयम् । पतङ्गम् इव मण्डूकः कृताक्रन्दम् अकिञ्चनम्
ततः कर्मफलं भुक्त्वा स्वं परत्र शुभाशुभम् । अङ्गेषु धीवरो जातस् स दुर्भाववशात् तदा
तत्र धीवरकर्माणि कुर्वन् स शरदां शतम् । दुःखजर्जरचेतस्त्वाद् वैराग्यं समुपाययौ
दुःखं संसार इत्य् एवं चिन्तयन् भास्करं ततः । सम्पतंस् तेन सञ्जातस् सूर्यवंशे महानृपः