सा पादाव् अवलम्ब्यास्य विवशेव वरानना । रराज च सुरेभस्य पादलग्नेव पद्मिनी
उवाच चेदं ललितं लसत्स्नेहोत्कया गिरा । वचो मधुरम् आनन्दि विलासवलिताक्षरम्
पश्यामलेन्दुवदन मण्डलीकृतकार्मुकः । अबलाम् अनुबध्नाति माम् एष किमनङ्गकः
पाहि माम् अबलां नाथ दीनां त्वच्छरणाम् इह । कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम्
स्नेहदृष्टिम् अजानद्भिर् मूढैर् एव महामते । प्रणया अवगण्यन्ते न रसज्ञैः कदाचन
अशङ्कितोपसम्पन्नः प्रणयो ऽन्योऽन्यरक्तयोः । अधःकरोति निष्यन्दं चान्द्रम् आस्वादितं प्रिय
न तथा सुखयत्य् एषा चेतस् त्रिभुवनेशता । यथा परस्परानन्दी स्नेहः प्रथमरक्तयोः
त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद । चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती
संस्पर्शामृतपानेन तव जीवामि सुन्दर । चन्द्रांशुरसपानेन चकोरी चपला यथा
माम् इमां चरणालीनां भ्रमरीं करपल्लवैः । आलिङ्ग्यामृतसम्पूर्णे सत्पद्महृदये कुरु
इत्य् उक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि । व्याघूर्णितालिनयना सुतराव् इव मञ्जरी
तौ दम्पती तत्र विलासकान्तौ विलेसतुस् तासु वनस्थलीषु । किञ्जल्कगौरानिलघूर्णितासु मत्तौ द्विरेफाव् इव पद्मिनीषु
मन्दारदामाकुलया वैबुधासवमत्तया । तदा तेन तया सार्धं द्वितीयेनामलेन्दुना
विहृतं मत्तहंसासु हेमपङ्कजिनीषु च । तटेष्व् अमरवाहिन्यास् सह किन्नरचारणैः
पीतम् इन्दुदलस्यन्दि देवैस् सह रसायनम् । पारिजातलताजालनिलयेषु विलासिना
चारुचैत्ररथोद्यानलतादोलासु लीलया । चिरं विलसितं व्यग्रैस् सह विद्याधरीगणैः
नन्दनोपवनाभोगो मन्दरेणेव वारिधिः । भृशम् उल्लोलतां नीतः प्रमथैस् सह शाम्भवैः
बालहेमलताजालजटिलासु दरीषु च । भ्रान्तम् उन्मत्तरागेण मैरवीष्व् अब्जिनीष्व् इव
कैलासवनकुञ्जेषु तया सह विलासिना । हारेन्दुधवला रात्रिः क्षपिता गणगीतिभिः
गन्धमादनशैलस्य विश्रम्योपरि सानुषु । सा तेन कनकाम्भोजैर् आपादम् अभिमण्डिता
लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु । क्रीडितं कृतहासेन राम तेन तया सह
मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः । अवसत् स समाष् षष्टिं कल्पितामरमन्दिरः
क्षीरार्णवतटेष्व् अस्य वनितासहचारिणः । क्षीणं कृतयुगाद् अर्धं श्वेतद्वीपजनैस् सह
गन्धर्वनगरोद्यानलीलाविरचनैर् असौ । सृष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः
अथावसद् असौ शुक्रः पुरन्दरपुरे पुनः । सुखं चतुर्युगान्य् अष्टौ हरिणेक्षणया सह
पुण्यक्षयानुसन्धानात् ततश् चावनिमण्डले । तयैव सह मानिन्या पपातापहृताकृतिः
परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः । चिन्तापरवशो ध्वस्तस् समितीवाहतो भटः
पतितस्यावनौ तस्य चिन्तया सह दीर्घया । शरीरं शतधा यातं शिलापातीव निर्झरः
संशीर्णयोर् देहकयोश् चित्ते ते वासनावृते । विचेरतुस् तयोर् व्योम्नि निर्नीडौ विहगौ यथा
तत्राविविशतुश् चान्द्रं ते चित्ते रश्मिजालकम् । प्रालेयताम् उपेत्याशु शालिताम् अथ जग्मतुः