धन्यस् त्वदागमेनाद्य स्वर्गो ऽयं शुक्र शोभते । उष्यतां चिरम् एवेह शक्र इत्थम् उवाच तम्
अथ तत्रोपविश्यासौ भार्गवश् शोभिताननः । श्रियं जहार शशिनस् सकलस्यामलस्य च
सकलसुरगणाभिवन्दितो ऽसौ भृगुतनयश् शतमन्युपार्श्वसंस्थः । चिरतरम् अतुलाम् अवाप तुष्टिं नरमतिम् उज्झितवान् अलं बभूव
मुहूर्तम् अथ विश्रम्य तस्य पार्श्वे शचीपतेः । स्वर्गं विहर्तुम् उत्तस्थौ स्वर्वासिपरिचोदितः
स्वर्गश्रियं समालोक्य लोललोचनलाञ्छितम् । स्त्रैणं द्रष्टुं जगामासौ नलिनीम् इव सारसः
तत्र तां मृगशावाक्षीं कान्ताम् अध्यागताम् असौ । ददर्श विपिनान्तस्स्थां भृङ्गश् चूतलताम् इव
ताम् आलोक्य लसल्लोलविलासवलिताकृतिम् । आसीद् विलीयमानाङ्गो ज्योत्स्नयेन्दुमणिर् यथा
विलीयमानसर्वाङ्गस् ताम् अवैक्षत कामिनीम् । चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम्
तेनावलोकिता सापि तत्परायणतां गता । निशान्ते चक्रवाकेन कान्तेव परिकूजिता
रसाद् विकसतोर् नूनम् अन्योऽन्यम् अनुरक्तयोः । प्रातर् अर्कनलिन्योर् या शोभा सैव तयोर् अभूत्
सङ्कल्पितार्थदायित्वाद् देशस्य मदनेन सा । सर्वाङ्गं विवशीकृत्य शुक्रायैव समर्पिता
पेतुस् स्मरशरास् तस्या मृदुष्व् अङ्गेषु भूरिशः । पलाशेष्व् इव पद्मिन्या धारा नवपयोमुचः
सा बभूव स्मराधूता लोलालिवलयालका । मन्दवातविनुन्नाया मञ्जर्यास् सहधर्मिणी
नीलनीरजनेत्रां तां हंसवारणगामिनीम् । मदनः क्षोभयाम् आस पूरः कमलिनीम् इव
अथ तां तादृशीं दृष्ट्वा शुक्रस् सङ्कल्पितार्थभाक् । तमस् सङ्कल्पयाम् आस संहारम् इव भूतकृत्
त्रिविष्टपस्य देशो ऽसौ बभूव तिमिराकुलः । भूलोकस्यान्धतमसो लोकालोकतटो यथा
लज्जान्धकारतीक्ष्णांशौ तस्मिंस् तिमिरमण्डले । प्रतिष्ठाम् आगते तस्य मिथुनस्येव मन्मथे
तेषु सर्वेषु भूतेषु गतेष्व् अभिमतां दिशम् । तस्मात् प्रदेशाद् भूलोकं दिनान्ते विहगेष्व् इव
सा दीर्घधवलापाङ्गा प्रवृद्धमदना तथा । आजगाम भृगोः पुत्रं मयूरी वारिदं यथा
धवलागारमध्यस्थे पर्यङ्के परिकल्पिते । विवेश भार्गवस् तत्र क्षीरोद इव माधवः
सा पादाव् अवलम्ब्यास्य विवशेव वरानना । रराज च सुरेभस्य पादलग्नेव पद्मिनी
उवाच चेदं ललितं लसत्स्नेहोत्कया गिरा । वचो मधुरम् आनन्दि विलासवलिताक्षरम्
पश्यामलेन्दुवदन मण्डलीकृतकार्मुकः । अबलाम् अनुबध्नाति माम् एष किमनङ्गकः
पाहि माम् अबलां नाथ दीनां त्वच्छरणाम् इह । कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम्
स्नेहदृष्टिम् अजानद्भिर् मूढैर् एव महामते । प्रणया अवगण्यन्ते न रसज्ञैः कदाचन
अशङ्कितोपसम्पन्नः प्रणयो ऽन्योऽन्यरक्तयोः । अधःकरोति निष्यन्दं चान्द्रम् आस्वादितं प्रिय
न तथा सुखयत्य् एषा चेतस् त्रिभुवनेशता । यथा परस्परानन्दी स्नेहः प्रथमरक्तयोः
त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद । चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती
संस्पर्शामृतपानेन तव जीवामि सुन्दर । चन्द्रांशुरसपानेन चकोरी चपला यथा
माम् इमां चरणालीनां भ्रमरीं करपल्लवैः । आलिङ्ग्यामृतसम्पूर्णे सत्पद्महृदये कुरु