एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः । दोलालोलाप्सरश्श्रेण्यश् शक्रोपवनवीथयः
इमे ते कुन्दमन्दारमकरन्दसुगन्धयः । चन्द्रांशुनिकराकाराः पारिजातसमीरणाः
पुष्पकेसरनीहारपटवासेरणोत्सुकैः । लताङ्गनागणैर् व्याप्तम् इदं तन् नन्दनं वनम्
कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ । इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू
इमे ते पुण्यकर्तारो भूरिभूषणभूषिताः । व्योमन्य् उड्डयमानेषु विमानेषु सुखं स्थिताः
मदमन्मथमत्ताङ्ग्य इमास् तास् सुरयोषितः । देवेश्वरं निषेवन्ते वनं वनलता इव
चन्द्रांशुजालकुसुमाश् चिन्तामणिगुलुच्छकाः । कल्पवृक्ष इमे पक्वरत्नस्तबकदन्तुराः
इह तावद् इमं शक्रम् अहम् आसनसंस्थितम् । द्वितीयम् इव देवेशं पूजयैवाभिवादये
इति सञ्चिन्त्य शुक्रेण मनसैव शचीपतिः । तेनाभिवादितस् तत्र द्वितीय इव वै भृगुः
अथ सादरम् उत्थाय शुक्रश् शक्रेण पूजितः । गृहीतहस्तम् आनीय समीप उपवेशितः
धन्यस् त्वदागमेनाद्य स्वर्गो ऽयं शुक्र शोभते । उष्यतां चिरम् एवेह शक्र इत्थम् उवाच तम्
अथ तत्रोपविश्यासौ भार्गवश् शोभिताननः । श्रियं जहार शशिनस् सकलस्यामलस्य च
सकलसुरगणाभिवन्दितो ऽसौ भृगुतनयश् शतमन्युपार्श्वसंस्थः । चिरतरम् अतुलाम् अवाप तुष्टिं नरमतिम् उज्झितवान् अलं बभूव
मुहूर्तम् अथ विश्रम्य तस्य पार्श्वे शचीपतेः । स्वर्गं विहर्तुम् उत्तस्थौ स्वर्वासिपरिचोदितः
स्वर्गश्रियं समालोक्य लोललोचनलाञ्छितम् । स्त्रैणं द्रष्टुं जगामासौ नलिनीम् इव सारसः
तत्र तां मृगशावाक्षीं कान्ताम् अध्यागताम् असौ । ददर्श विपिनान्तस्स्थां भृङ्गश् चूतलताम् इव
ताम् आलोक्य लसल्लोलविलासवलिताकृतिम् । आसीद् विलीयमानाङ्गो ज्योत्स्नयेन्दुमणिर् यथा
विलीयमानसर्वाङ्गस् ताम् अवैक्षत कामिनीम् । चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम्
तेनावलोकिता सापि तत्परायणतां गता । निशान्ते चक्रवाकेन कान्तेव परिकूजिता
रसाद् विकसतोर् नूनम् अन्योऽन्यम् अनुरक्तयोः । प्रातर् अर्कनलिन्योर् या शोभा सैव तयोर् अभूत्
सङ्कल्पितार्थदायित्वाद् देशस्य मदनेन सा । सर्वाङ्गं विवशीकृत्य शुक्रायैव समर्पिता
पेतुस् स्मरशरास् तस्या मृदुष्व् अङ्गेषु भूरिशः । पलाशेष्व् इव पद्मिन्या धारा नवपयोमुचः
सा बभूव स्मराधूता लोलालिवलयालका । मन्दवातविनुन्नाया मञ्जर्यास् सहधर्मिणी
नीलनीरजनेत्रां तां हंसवारणगामिनीम् । मदनः क्षोभयाम् आस पूरः कमलिनीम् इव
अथ तां तादृशीं दृष्ट्वा शुक्रस् सङ्कल्पितार्थभाक् । तमस् सङ्कल्पयाम् आस संहारम् इव भूतकृत्
त्रिविष्टपस्य देशो ऽसौ बभूव तिमिराकुलः । भूलोकस्यान्धतमसो लोकालोकतटो यथा
लज्जान्धकारतीक्ष्णांशौ तस्मिंस् तिमिरमण्डले । प्रतिष्ठाम् आगते तस्य मिथुनस्येव मन्मथे
तेषु सर्वेषु भूतेषु गतेष्व् अभिमतां दिशम् । तस्मात् प्रदेशाद् भूलोकं दिनान्ते विहगेष्व् इव
सा दीर्घधवलापाङ्गा प्रवृद्धमदना तथा । आजगाम भृगोः पुत्रं मयूरी वारिदं यथा
धवलागारमध्यस्थे पर्यङ्के परिकल्पिते । विवेश भार्गवस् तत्र क्षीरोद इव माधवः