इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः । द्रवत्कनकनिष्ष्यन्दविलासिवपुषस् सुराः
इमास् ता लोचनोल्लाससृष्टनीलाब्जवृष्टयः । मुग्धा हासविलासिन्यः कान्ता हरिणदृष्टयः
इमे ते कौस्तुभोद्द्योता अन्योऽन्यप्रतिबिम्बिताः । विश्वरूपोपमाकारा मरुतो मत्तकाशिनः
ऐरावणकटामोदविरक्तमधुपश्रुताः । इमास् ताः काकलीगीता गीर्वाणगणगीतयः
इयं सा कनकाम्भोजचरद्वैरिञ्चसारसा । मन्दाकिनीतटोद्यानविश्रान्तसुरनायिका
एते ते यमचन्द्रेन्द्रसूर्यानिलजलानलाः । लोकपालास् तनूद्द्योतकीर्णदीप्तोज्ज्वलार्चिषः
अयं स सुरविक्रान्तहेतिकण्डूयिताननः । ऐरावणो रणद्दन्तप्रोतदैत्येन्द्रमण्डलः
इमे ते भूतलस्थाना व्योमतारकतां गताः । वैमानिकाश् चलच्चारुहारचामरकुण्डलाः
इमास् ता विविधोद्यानमणिमन्दिरमण्डिताः । विमानपङ्क्तयश् चारुचामीकरमयातपाः
मेरूपलतलास्फालशीकराकीर्णदेवताः । एतास् ताः कीर्णमन्दारा गङ्गासलिलवीचयः
एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः । दोलालोलाप्सरश्श्रेण्यश् शक्रोपवनवीथयः
इमे ते कुन्दमन्दारमकरन्दसुगन्धयः । चन्द्रांशुनिकराकाराः पारिजातसमीरणाः
पुष्पकेसरनीहारपटवासेरणोत्सुकैः । लताङ्गनागणैर् व्याप्तम् इदं तन् नन्दनं वनम्
कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ । इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू
इमे ते पुण्यकर्तारो भूरिभूषणभूषिताः । व्योमन्य् उड्डयमानेषु विमानेषु सुखं स्थिताः
मदमन्मथमत्ताङ्ग्य इमास् तास् सुरयोषितः । देवेश्वरं निषेवन्ते वनं वनलता इव
चन्द्रांशुजालकुसुमाश् चिन्तामणिगुलुच्छकाः । कल्पवृक्ष इमे पक्वरत्नस्तबकदन्तुराः
इह तावद् इमं शक्रम् अहम् आसनसंस्थितम् । द्वितीयम् इव देवेशं पूजयैवाभिवादये
इति सञ्चिन्त्य शुक्रेण मनसैव शचीपतिः । तेनाभिवादितस् तत्र द्वितीय इव वै भृगुः
अथ सादरम् उत्थाय शुक्रश् शक्रेण पूजितः । गृहीतहस्तम् आनीय समीप उपवेशितः
धन्यस् त्वदागमेनाद्य स्वर्गो ऽयं शुक्र शोभते । उष्यतां चिरम् एवेह शक्र इत्थम् उवाच तम्
अथ तत्रोपविश्यासौ भार्गवश् शोभिताननः । श्रियं जहार शशिनस् सकलस्यामलस्य च
सकलसुरगणाभिवन्दितो ऽसौ भृगुतनयश् शतमन्युपार्श्वसंस्थः । चिरतरम् अतुलाम् अवाप तुष्टिं नरमतिम् उज्झितवान् अलं बभूव
मुहूर्तम् अथ विश्रम्य तस्य पार्श्वे शचीपतेः । स्वर्गं विहर्तुम् उत्तस्थौ स्वर्वासिपरिचोदितः
स्वर्गश्रियं समालोक्य लोललोचनलाञ्छितम् । स्त्रैणं द्रष्टुं जगामासौ नलिनीम् इव सारसः
तत्र तां मृगशावाक्षीं कान्ताम् अध्यागताम् असौ । ददर्श विपिनान्तस्स्थां भृङ्गश् चूतलताम् इव
ताम् आलोक्य लसल्लोलविलासवलिताकृतिम् । आसीद् विलीयमानाङ्गो ज्योत्स्नयेन्दुमणिर् यथा
विलीयमानसर्वाङ्गस् ताम् अवैक्षत कामिनीम् । चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम्
तेनावलोकिता सापि तत्परायणतां गता । निशान्ते चक्रवाकेन कान्तेव परिकूजिता
रसाद् विकसतोर् नूनम् अन्योऽन्यम् अनुरक्तयोः । प्रातर् अर्कनलिन्योर् या शोभा सैव तयोर् अभूत्