भिद्यते नावभग्नो ऽपि दग्धो ऽपि हि न दह्यते । दृश्यते नातिदृश्यो ऽपि धूर्तचूडामणिर् मुने
एकेनैव निमेषेण किञ्चिद् उत्थापयत्य् अलम् । किञ्चिद् विनाशयत्य् उच्चैर् मनोराज्यवद् आततः
दुर्विलासविलासिन्या चेष्टया कष्टपुष्टया । दर्व्येव सूपकृत् सूपं जनम् आवर्तयन् स्थितः
तृणं पांसुं महेन्द्रं च सुमेरुं पर्णम् अर्णवम् । आत्मस्फारतया सर्वम् आत्मसात्कर्तुम् उद्यतः
क्रौर्यम् अत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता । सर्वं दौर्भाग्यम् अत्रैव सर्वम् अत्रैव चापलम्
प्रेरयंल् लीलयार्केन्दू क्रीडतीह नभस्तले । निक्षिप्तवीटायुगलो निजे बाल इवाङ्गने
सर्वभूतास्थिमालाभिर् आपादवलिताकृतिः । विलसत्य् एष कल्पान्ते कालः कल्पितकल्पनः
अस्योड्डामरनृत्तस्य कल्पान्ते ऽङ्गविनिर्गतैः । प्रस्फुरत्य् अम्बरे मेरुर् भूर्जत्वग् इव वायुभिः
रुद्रो भूत्वा भवत्य् एष महेन्द्रो ऽथ पितामहः । शुक्रो वैश्रवणश् चापि पुनर् एव न किञ्चन
धत्ते ऽजस्रोत्थितध्वस्तान् सर्गान् अमितभासुरान् । अन्यान् अन्यान् अप्य् अनन्यान् वीचीन् अब्धिर् इवात्मनि
महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् । देवासुरगणान् पक्वान् फलभारान् अवस्थितः
आलोलभूतमषकघुङ्घुमानां प्रपातिनाम् । ब्रह्माण्डोडुम्बरौघानां बृहत्पादपतां गतः
सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया । वपुर् विनोदयत्य् एकः क्रियाप्रियतमान्वितः
अनन्तापायपर्यन्तं बद्धपीठं निजं वपुः । महाशैलवद् उत्तुङ्गम् अवलम्ब्य व्यवस्थितः
क्वचिच् छ्यामातमश्श्यामं क्वचित् कान्तियुतं ततम् । द्वयेनापि क्रमाद् रिक्तं स्वभावं भावयन् स्थितः
संलीनासङ्ख्यसंसारसारया स्वात्मसत्तया । गुर्वीव भारघनया निबद्धपदतां गतः
न खिद्यते न म्रियते नायाति न च गच्छति । नास्तम् एति न चोदेति महाकल्पशतैर् अपि
केवलं जगदारम्भलीलया घनहेलया । यापयत्य् आत्मनात्मानम् अनहङ्कारम् आगतम्
यामिनीपङ्ककलिलां दिनकोकनदावलीम् । क्रियाभ्रमरिकां स्वात्मसरस्स्व् आरोपयन् स्थितः
गृहीत्वा भीषणः कृष्णां रजनीं जीर्णमार्जनीम् । आलोककनकक्षोदम् आहरत्य् अभितो ऽवनिम्
सञ्चारयन् क्रियाङ्गुल्या कोणकेष्व् अर्कदीपिकाम् । जगत्सद्मनि कारुण्यात् क्व किम् अस्तीति वीक्षते
प्रेक्ष्याहानि निमेषेण सूर्याक्ष्णा पाकवन्त्य् अलम् । लोकपालफलान्य् अत्ति जगज्जीर्णवनाद् अयम्
जगज्जीर्णकुटीकीर्णान् अर्पयत्य् उग्रकोटरे । क्रमेण गुणवल्लोकमणीन् मृत्युसमुद्गके
गुणैर् आपूर्यते यैव लोकरत्नावली भृशम् । भूषार्थम् इव ताम् अङ्गे कृत्वा भूयो निकृन्तति
दिनहंसानुसृतया निशेन्दीवरमालया । ताराकेसरयाजस्रं चपलो वलयत्य् अलम्
शैलोर्णद्युधराशृङ्गजगदूर्णायुसौनिकः । प्रत्यहं पिबति प्रोक्ष्य तारारक्तकणान् अपि
तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी । न तद् अस्ति न यस्यायं तुच्छातुच्छस्य तस्करः
कल्पकेलिविलासेन पिष्टपातितजन्तुना । न्यग्भावोद्भवहासेन रमते स्वात्मनात्मनि
कर्ता भोक्ताथ संहर्ता स्मर्ता सर्वपदं गतः । सर्वम् एव करोतीदं न करोति च किञ्चन
सकलम् अप्य् अकलाकलितान्तरं सुभगदुर्भगरूपधरं वपुः । प्रकटयन् सहसैव च गोपयन् विलसतीह हि कालबलं नृषु