मनस् सर्वम् इदं राम तस्मिन्न् अन्तश् चिकित्सिते । चिकित्सितो ऽयं सकलो जन्मजालमयो भवः
तद् एतज् जायते लोके मनो मललवाकुलम् । मनसो व्यतिरेकेण देहः क्व किल दृश्यते
दृश्यात्यन्तासम्भवनम् ऋते नान्येन हेतुना । मनःपिशाचः प्रशमं याति कल्पशतैर् अपि
एतच् च सम्भवत्य् एव मनोव्याधिचिकित्सने । दृश्यात्यन्तासम्भवात्म परमौषधम् उत्तमम्
मनो मोहम् उपादत्ते म्रियते जायते मनः । कस्यचित् तु प्रसादेन बध्यते मुच्यते पुनः
स्फुरतीत्थं जगत् सर्वं चित्ते मननमन्थरे । शून्य एवाम्बरे स्फारे गन्धर्वाणां पुरं यथा
मनसीदं जगत् कृत्स्नं स्फारं स्फुरति चास्ति च । पुष्पगुच्छ इवामोदस् तत्स्थस् तस्माद् इवेतरः
यथा तिलकणे तैलं गुणो गुणिनि वा यथा । यथा धर्मिणि वा धर्मस् तथेदं मनसि स्थितम्
यथाम्भसि तरङ्गौघ इन्दौ द्वीन्दुभ्रमो यथा । मृगतृष्णा यथा तापे संसारश् चित्तके तथा
रश्मिजालं यथा सूर्ये यथालोकश् च तेजसि । यथौष्ण्यं चित्रभानौ वा मनसीदं तथा जगत्
शैत्यं यथैव तुहिने यथा नभसि शून्यता । यथा चञ्चलता वायौ मनसीदं तथा जगत्
मनो जगज् जगद् अखिलं तथा मनः परस्परं त्व् अविरहितं सदैव हि । तयोर् द्वयोर् मनसि निरन्तरं क्षते क्षतं जगन् न तु जगति क्षते मनः
यथायं मनसि स्फार आरम्भस् स्फुरति स्फुटम् । दृष्टान्तदृष्ट्या स्फुटया तथा कथय मे ऽनघ
यथैन्दवानां विप्राणां जगन्त्य् अवपुषाम् अपि । स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम्
लवणस्य यथा राज्ञश् चेन्द्रजालाकुलाकृतेः । चण्डालत्वम् अनुप्राप्तं तथेदं मनसि स्थितम्
भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया । भोगेश्वरत्वं च यथा तथेदं मनसि स्थितम्
भगवन् भृगुपुत्रस्य स्वर्गभोगबुभुक्षया । कथं भोगाधिनाथत्वं संसारित्वं बभूव च
शृणु राम पुरा वृत्तं संवादं भृगुकालयोः । सानौ मन्दरशैलस्य तमालविटपाकुले
पुरा मन्दरशैलस्य सानौ कुसुमसङ्कुले । अतप्यत तपो घोरं कस्मिंश्चिद् भगवान् भृगुः
तम् उपास्ते स्म तेजस्वी बालः पुत्रो महामतिः । शुक्रस् सकलचन्द्राभः प्रकाश इव भास्करम्
भृगुर् वरवने तस्मिन् समाधाव् एव संस्थितः । सर्वकालं समुत्कीर्णो वनोपलतलाद् इव
शुक्रः कुसुमशय्यासु कलधौताब्जिनीषु च । मन्दारतरुदोलासु बालो ऽरमत लीलया
विद्याविद्यादृशोर् मध्ये शुक्रो ऽप्राप्तमहापदः । त्रिशङ्कुर् इव रोदोऽन्तर् अवर्तत तदा किल
निर्विकल्पसमाधिस्थे स कदाचित् पितर्य् अथ । अव्यग्रो ऽभवद् एकान्ते जितारिर् इव भूमिपः
ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा । क्षीरोदमध्यलुलितां लक्ष्मीम् इव जनार्दनः
मन्दारमाल्यवलितां मन्दानिलचलालकाम् । हारिझाङ्कारिगमनां सुगन्धितनभोऽनिलाम्
लावण्यपादपलतां मदघूर्णितलोचनाम् । अमृतीकृततद्देशां देहेन्दूदयकान्तिभिः
कान्ताम् आलोक्य तस्याभूद् उल्लासतरलं मनः । दृष्टे निर्मलपूर्णेन्दौ वपुर् अम्बुनिधेर् इव
मनसिजेषुशताहतम् आशये स परिरुध्य मनस् तदनूशनाः । विगलितेतरवृत्तितयात्मना सुरवधूमय एव बभूव सः
एषा हि ललना व्योम्नि सहस्रनयनालये । सम्प्राप्तो ऽयम् अहं स्वर्गम् आलोलसुरसुन्दरम्