द्रवत्वानीव तोयस्य स्पन्दा इव सदागतेः । आवर्ता इव वाम्भोधेर् गुणिनो वाथवा गुणाः
विज्ञानघन एवैकम् इदम् इत्थम् अवस्थितम् । सोदयास्तमयारम्भम् अनन्तं शान्तम् आततम्
सहकार्यादिहेतूनाम् अभावे शून्यता जगत् । स्वयम्भूर् जायते चेति किलोन्मत्तकफूत्कृतम्
प्रशान्तसर्वार्थकलाकलङ्को निरस्तनिश्शेषविकल्पतल्पः । चिराय विद्रावितदीर्घनिद्रो भवाभयो भूषितभूः प्रबुद्धः
महाप्रलयसर्गादाव् एवम् एतद् रघूद्वह । स्मृत्यात्मैव भवत्य् आदौ प्रथमो ऽसौ प्रजापतिः
तत्सङ्कल्पात्म च जगत् स्मृत्यात्मैवम् इदं ततः । भाति सङ्कल्पनगरं स्थितं पूर्वप्रजापतेः
इति स्थिते ऽपि सा राम तस्य पूर्वप्रजापतेः । स्थितिर् न सम्भवत्य् एव नभसीव महाद्रुमः
न सम्भवति किं ब्रह्मन् सर्गादौ प्राक्तनी स्मृतिः । महाप्रलयसम्मोहैर् नश्यति प्राक्स्मृतिः कथम्
प्राङ्महाप्रलये प्राज्ञ पूर्वे ब्रह्मादयः पुरा । किल निर्वाणम् आयातास् ते ऽवश्यं ब्रह्मतां गताः
प्राक्तन्याः कस् स्मृतेस् स्मर्ता तस्मात् कथय सुव्रत । स्मृतिर् निर्मूलतां याता स्मर्तुर् मुक्ततया यतः
अतस् स्मर्तुर् अभावे सा स्मृतिः कोदेतु किं कथम् । अवश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः
नानुभूते ऽनुभूते च स्वतश् चिद्व्योम्नि या स्मृतिः । सा जगच्छ्रीर् इति प्रौढा दृश्याभावे हि चित्प्रभा
भाति संवित्प्रभैवाच्छम् अनाद्यन्तावभासिनी । यत् तद् एतज् जगद् इति स्वयम्भूर् इति च स्थितम्
अनादिकालसंसिद्धं यद् भानं ब्रह्मणो निजम् । स आतिवाहिको देहो विराजो जगदाकृतिः
परमाणाव् इदं भाति जगत् सभुवनत्रयम् । देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम्
परमाणुं प्रति ततस् तस्यान्तस् तादृग् एव च । भाति भास्वरिताकारं तादृग्गिरिकुलावृतम्
तत्रापि तादृगाकारम् एवं प्रत्य् अणुम् आततम् । दृश्यम् आभाति भारूपम् एतद् अङ्ग न वास्तवम्
इत्य् अस्त्य् अन्तो न सद्दृष्टेर् असद्दृष्टेश् च वा क्वचित् । अस्यास् त्व् अभ्युदितं बुद्धम् अबुद्धं प्रति वानघ
बुद्धं प्रतीदं ब्रह्मैव केवलं शान्तम् अव्ययम् । अबुद्धं प्रति तु द्वैतभासुरं भुवनान्वितम्
यथेदं भासुरं भाति जगद् अण्डकजृम्भितम् । तथा कोटिसहस्राणि भान्त्य् अन्यान्य् अप्य् अणाव् अणौ
यथा स्तम्भे पुत्रिकान्तस् तस्याश् चाङ्गेषु पुत्रिका । तस्याश् च पुत्रिकास्त्य् अङ्गे तथा त्रैलोक्यपुत्रिका
न भिन्ना न च सङ्ख्येया यथाद्रौ परमाणवः । तथा ब्रह्मबृहन्मेरौ त्रैलोक्यपरमाणवः
सूर्यौघांशुषु सङ्ख्यातुं शक्यन्ते लघवो ऽणवः । नानाद्यन्ताश् चिदादित्ये त्रैलोक्यपरमाणवः
यथाणवो वहन्त्य् अर्कदीप्तिष्व् अप्सु रजस्सु च । तथा वहन्ते चिद्व्योम्नि त्रैलोक्यपरमाणवः
शून्यानुभवमात्रात्म भूताकाशम् इदं यथा । सर्गानुभवमात्रात्म चिदाकाशम् इदं तथा
सर्गस् तु सर्गशब्दार्थतया बुद्धो नयत्य् अधः । स ब्रह्मशब्दार्थतया बुद्धश् श्रेयो भवत्य् अलम्
विज्ञानात्मा शासिता विश्वबीजं ब्रह्मैवाद्यं स्वं चिदाकाशमात्रम् । तस्माज् जातं यत् तद् एवेति वेद्यं बुध्यस्वान्तर् बोधसम्बोधमात्रम्
शास्त्रसत्सङ्गमाभ्यासैस् सविवेको जितेन्द्रियः । अत्यन्ताभावम् एवास्य दृश्यौघस्यावगच्छति
एतत् ते कथितं सर्वं स्वरूपं रूपिणां वर । संसारसागरश्रेण्यो यथायान्ति प्रयान्ति च
बहुनात्र किम् उक्तेन मनः कर्मद्रुमाङ्कुरः । तस्मिंश् छिन्ने जगच्छाखश् छिन्नः कर्मतरुर् भवेत्